Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 832

1875 Mantra
Devata- पवमानः सोमः Rishi- जमदग्निर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
कृ꣣ण्व꣢न्तो꣣ व꣡रि꣢वो꣣ ग꣢वे꣣꣬ऽभ्य꣢꣯र्षन्ति सुष्टु꣣ति꣢म् । इ꣡डा꣢म꣣स्म꣡भ्य꣢ꣳ सं꣣य꣡त꣢म् ॥८३२॥

कृ꣣ण्व꣡न्तः꣢ । व꣡रि꣢꣯वः । ग꣡वे꣢꣯ । अ꣡भि꣢ । अ꣣र्षन्ति । सुष्टुति꣢म् । सु꣣ । स्तुति꣢म् । इ꣡डा꣢꣯म् । अ꣣स्म꣡भ्य꣢म् । सं꣣य꣡त꣢म् । स꣣म् । य꣡त꣢꣯म् ॥८३२॥

Mantra without Swara
कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम् । इडामस्मभ्यꣳ संयतम् ॥

कृण्वन्तः । वरिवः । गवे । अभि । अर्षन्ति । सुष्टुतिम् । सु । स्तुतिम् । इडाम् । अस्मभ्यम् । संयतम् । सम् । यतम् ॥८३२॥

Samveda - Mantra Number : 832
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
एते सोमासः तेजस्विनः उपासकाः (गवे) स्वकीयाय जीवात्मने इन्द्रियगणाय च (वरिवः) ऐश्वर्यम् [वरिवः इति धननाम। निघं० २।१०।] किञ्च (अस्मभ्यम्) सखिभ्यो नः (संयतम्) संयमयुक्तां। [संपूर्वात् यम उपरमे धातोः क्विपि स्त्रियां द्वितीयैकवचने रूपम्।] (इडाम्) भद्रां वाचम् [इडा इति वाङ्नाम निघं० १।११।] (कृण्वन्तः) कुर्वन्तः, प्रयुञ्जानाः (सुष्टुतिम्) सुप्रशस्तिम् (अभ्यर्षन्ति) प्राप्नुवन्ति ॥३॥
Essence
उपासकस्यात्ममनोबुद्धिवाक्प्राणेन्द्रियादीनि सर्वाण्यपि दिव्यैश्वर्यमयानि जायन्ते, स चान्यान् प्रति मधुरां भद्रामेव वाचं प्रयुञ्जानः सुप्रशस्तिं लभते ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ९।६२।३।