Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 831

1875 Mantra
Devata- पवमानः सोमः Rishi- जमदग्निर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वि꣣घ्न꣡न्तो꣢ दुरि꣣ता꣢ पु꣣रु꣢ सु꣣गा꣢ तो꣣का꣡य꣢ वा꣣जि꣡नः꣢ । त्म꣡ना꣢ कृ꣣ण्व꣢न्तो꣣ अ꣡र्व꣢तः ॥८३१॥

वि꣡घ्न꣢न्तः । वि꣣ । घ्न꣡न्तः꣢꣯ । दु꣣रिता꣢ । दुः꣣ । इता꣢ । पु꣣रु꣢ । सु꣣गा꣢ । सु꣣ । गा꣢ । तो꣣का꣡य꣢ । वा꣣जि꣡नः꣢ । त्म꣡ना꣢꣯ । कृ꣣ण्व꣡न्तः꣢ । अ꣡र्व꣢꣯तः ॥८३१॥

Mantra without Swara
विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः । त्मना कृण्वन्तो अर्वतः ॥

विघ्नन्तः । वि । घ्नन्तः । दुरिता । दुः । इता । पुरु । सुगा । सु । गा । तोकाय । वाजिनः । त्मना । कृण्वन्तः । अर्वतः ॥८३१॥

Samveda - Mantra Number : 831
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वाजिनः) आत्मबलयुक्ताः एते सोमासः सौम्यगुणाः उपासकाः (पुरु) पुरूणि (दुरिता) दुरितानि, (दुर्गुणान्) दुर्व्यसनानि दुःखानि च (विघ्नन्तः) विनाशयन्तः, (तोकाय) अपत्याय (सुगा) सुगानि सुप्राप्याणि भद्राणि सृजन्तः, (त्मना) आत्मनश्च। [मन्त्रेष्वाङ्यादेरात्मनः अ० ६।४।१४१ इत्याकारलोपः।] (अर्वतः) अश्वान्, अश्वानिव प्रगतिशीलान् (कृण्वन्तः) कुर्वन्तः (सुष्टुतिम्) शोभनां स्तुतिम् (अभ्यर्षन्ति) प्राप्नुवन्ति। [‘अभ्यर्षन्ति सुष्टुतिम्’ इत्युत्तरमन्त्रादाकृष्यते] ॥२॥
Essence
हार्दिक्या उपासनाया इदमनिवार्यं फलं यदुपासकस्य दुरितनाशो भद्रप्राप्तिरग्रेसरत्वं चेति ॥२॥
Subject
अथ पुनरपि स एव विषय उच्यते।
Footnote
१. ऋ० ९।६२।२, ‘तना कृ॒ण्वन्तो॒ अर्व॑ते’ इति तृतीयः पादः।