Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 830

1875 Mantra
Devata- पवमानः सोमः Rishi- जमदग्निर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣त꣡ अ꣢सृग्र꣣मि꣡न्द꣢वस्ति꣣रः꣢ प꣣वि꣡त्र꣢मा꣣श꣡वः꣢ । वि꣡श्वा꣢न्य꣣भि꣡ सौभ꣢꣯गा ॥८३०॥

ए꣣ते꣢ । अ꣣सृग्रम् । इ꣡न्द꣢꣯वः । ति꣣रः꣢ । प꣣वि꣡त्र꣢म् । आ꣣श꣡वः꣢ । वि꣡श्वा꣢꣯नि । अ꣣भि꣢ । सौ꣡भ꣢꣯गा । सौ । भ꣣गा ॥८३०॥

Mantra without Swara
एत असृग्रमिन्दवस्तिरः पवित्रमाशवः । विश्वान्यभि सौभगा ॥

एते । असृग्रम् । इन्दवः । तिरः । पवित्रम् । आशवः । विश्वानि । अभि । सौभगा । सौ । भगा ॥८३०॥

Samveda - Mantra Number : 830
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एते) इमे (तिरः) तिरश्चीनगत्या (आशवः) आशु अग्रगामिनः (इन्दवः) तेजस्विनः उपासकाः (पवित्रम्) पवित्रव्यवहारम् (असृग्रम्) असृजन् सृजन्ति। [सृज विसर्गे धातोः लडर्थे लङि प्रथमपुरुषबहुवचने असृजन् इति प्राप्ते ‘बहुलं छन्दसि’ अ० ७।१।८ इति रुडागमः, वर्णव्यत्ययेन जकारस्य गकारः, नकारस्य च मकारः।] अत एव (विश्वानि) सर्वाणि (सौभगा) सौभगानि, सौभाग्यानि (अभि) अभिप्राप्नुवन्ति ॥१॥
Essence
जगदीश्वरोपासनया स्वहृदयं पवित्रं कृत्वा समाजे सर्वान् प्रति पवित्रो व्यवहारश्चेत् क्रियते तर्हि नूनं सर्वाणि सौभाग्यानि प्राप्यन्ते ॥१॥
Subject
तत्र प्रथमायामृचि उपासकव्यवहारमाह।
Footnote
१. ऋ० ९।६२।१।