Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 83

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
त्वे꣣ष꣡स्ते꣢ धू꣣म꣡ ऋ꣢ण्वति दि꣣वि꣢꣫ सं च्छु꣣क्र꣡ आत꣢꣯तः । सू꣢रो꣣ न꣢꣫ हि द्यु꣣ता꣢꣫ त्वं कृ꣣पा꣡ पा꣢वक꣣ रो꣡च꣢से ॥८३॥

त्वे꣣षः꣢ । ते꣣ । धूमः꣢ । ऋ꣣ण्वति । दि꣣वि꣢ । सन् । शु꣣क्रः꣢ । आ꣡त꣢꣯तः । आ । त꣣तः । सू꣡रः꣢꣯ । न । हि । द्यु꣣ता꣢ । त्वम् । कृ꣣पा꣢ । पा꣣वक । रो꣡च꣢꣯से ॥८३॥

Mantra without Swara
त्वेषस्ते धूम ऋण्वति दिवि सं च्छुक्र आततः । सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥

त्वेषः । ते । धूमः । ऋण्वति । दिवि । सन् । शुक्रः । आततः । आ । ततः । सूरः । न । हि । द्युता । त्वम् । कृपा । पावक । रोचसे ॥८३॥

Samveda - Mantra Number : 83
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे परमात्माग्ने ! (ते) तव (त्वेषः) दीप्तः। त्विष दीप्तौ। (धूमः) धूमवत् प्रसरणशीलः शत्रुप्रकम्पकः प्रभावः। धूनोति कम्पयतीति धूमः। धूञ् कम्पने धातोः इषियुधीन्धिदसिश्याधूसूभ्यो मक् उ० १।१४५ इति मक् प्रत्ययः। (ऋण्वति) सर्वत्र गच्छति, प्रसरति। ऋण्वति गतिकर्मा। निघं० २।४। यः (दिवि) आत्माकाशे (आततः) विस्तीर्णः (सन्) भवन् (शुक्रः) शुद्धिकरः जायते। शुचिर् पूतीभावे धातोर्णिजन्तादौणादिको रन् प्रत्ययः (उ० २।२९)। हे (पावक) शुद्धिकर्तः परमात्मन् ! (द्युता) दीप्त्या। अत्र द्युत दीप्तौ इत्यस्मात् क्विप् प्रत्ययः। (सूरः न) सूर्यः इव (हि) निश्चयेन (त्वम् कृपा) प्रभावसामर्थ्येन। कृपू सामर्थ्ये धातोः निष्पन्नस्य कृप् शब्दस्य तृतीयैकवचने रूपम्। (रोचसे) आरोचमानो भवसि ॥३॥२ अत्रोपमालङ्कारः। श्लेषेण यज्ञाग्निपक्षेऽप्यर्थो योज्यः ॥३॥
Essence
यथा यज्ञाग्नेर्ज्वालाजालजटिलः प्रदीप्तः सुगन्धिर्धूम आकाशे प्रसृतः सन् शुद्धिकरो रोगहरश्च जायते, तथैव परमात्मनः प्रभावो मनुष्यस्यात्मनि हृदये च प्रसृतः सन्नज्ञानादिदोषप्रकम्पकः शोधकश्च भवति। अपि च यथा सूर्यः स्वकीयेन तेजसा द्योतते तथा परमात्माग्निः स्वप्रभावसामर्थ्येन रोचते ॥३॥
Subject
अथ परमात्माग्नेः प्रतापः प्रभावश्च वर्ण्यते।
Footnote
१. ऋ० ६।२।६, सञ्छुक्र इत्यत्र षञ्छुक्र इति पाठः। अथ० १८।४।५९, ऋषिः अथर्वा, देवता यमः, त्वेषस्ते धूम ऊर्णोतु दिविषञ्छुक्र आततः इति पूर्वार्द्धपाठः। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं भौतिकाग्निविद्याविषये व्याख्यातः।