Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 829

1875 Mantra
Devata- इन्द्रः Rishi- जेता माधुच्छन्दसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
पू꣣र्वी꣡रिन्द्र꣢꣯स्य रा꣣त꣢यो꣣ न꣡ वि द꣢꣯स्यन्त्यू꣣त꣡यः꣢ । य꣣दा꣡ वाज꣢꣯स्य꣣ गो꣡म꣢त स्तो꣣तृ꣢भ्यो꣣ म꣡ꣳह꣢ते म꣣घ꣢म् ॥८२९॥

पू꣣र्वीः꣢ । इ꣡न्द्र꣢꣯स्य । रा꣣त꣡यः꣢ । न । वि । द꣣स्यन्ति । ऊत꣡यः꣢ । य꣣दा꣢ । वा꣡ज꣢꣯स्य । गो꣡म꣢꣯तः । स्तो꣣तृ꣡भ्यः꣢ । म꣡ꣳह꣢꣯ते । म꣣घ꣢म् ॥८२९॥

Mantra without Swara
पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः । यदा वाजस्य गोमत स्तोतृभ्यो मꣳहते मघम् ॥

पूर्वीः । इन्द्रस्य । रातयः । न । वि । दस्यन्ति । ऊतयः । यदा । वाजस्य । गोमतः । स्तोतृभ्यः । मꣳहते । मघम् ॥८२९॥

Samveda - Mantra Number : 829
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रस्य) परमैश्वर्यवतः अविद्याविदारकस्य जगदीश्वरस्य आचार्यस्य च (रातयः) दत्तयः (पूर्वीः) पूर्व्यः श्रेष्ठाः सन्ति। तस्य जगदीश्वरस्य आचार्यस्य च (ऊतयः) रक्षाः (न विदस्यन्ति) कदापि न क्षीयन्ते, (यदा) यस्मिन् काले सः (स्तोतृभ्यः) स्वसद्गुणकर्मप्रशंसकेभ्यः (गोमतः) प्रशस्तधेनुवाग्विद्यापृथिवीन्द्रियादियुक्तस्य (वाजस्य) बलस्य (मघम्) धनम् (मंहते) ददाति। [मंहते दानकर्मा। निघं० ३।२०।] ॥३॥२
Essence
यथा जगदीश्वरस्य दानरक्षणादीनि सर्वैर्नित्यं प्राप्यन्ते तथैवाचार्यस्यापि सदाचारविद्यादिदानान्यविद्यादुर्गुण-दुर्व्यसनादिभ्यो रक्षणानि च सततं प्रजाभिः प्राप्तव्यानि ॥–३॥ अस्मिन् खण्डेऽन्तरात्मोद्बोधनपूर्वकं जगदीश्वराचार्ययोर्विषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥
Subject
अथ पुनर्जगदीश्वराचार्ययोर्विषयमाह।
Footnote
१. ऋ० १।११।३, ‘यदा वाजस्य गोमत’ इत्यत्र ‘यदी॒ वाज॑स्य॒ गोम॑तः’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं श्लेषेण परमेश्वरविषये सभासेनाध्यक्षविषये च व्याख्यातवान्।