Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 828

1875 Mantra
Devata- इन्द्रः Rishi- जेता माधुच्छन्दसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
स꣣ख्ये꣡ त꣢ इन्द्र वा꣣जि꣢नो꣣ मा꣡ भे꣢म शवसस्पते । त्वा꣢म꣣भि꣡ प्र नो꣢꣯नुमो꣣ जे꣡ता꣢र꣣म꣡परा꣢जितम् ॥८२८॥

स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । ते꣣ । इन्द्र । वाजि꣡नः꣢ । मा । भे꣣म । शवसः । पते । त्वा꣢म् । अ꣣भि꣢ । प्र । नो꣣नुमः । जे꣡ता꣢꣯रम् । अ꣡प꣢꣯राजितम् । अ । प꣣राजितम् ॥८२८॥

Mantra without Swara
सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते । त्वामभि प्र नोनुमो जेतारमपराजितम् ॥

सख्ये । स । ख्ये । ते । इन्द्र । वाजिनः । मा । भेम । शवसः । पते । त्वाम् । अभि । प्र । नोनुमः । जेतारम् । अपराजितम् । अ । पराजितम् ॥८२८॥

Samveda - Mantra Number : 828
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शवसः पते) बलस्य अधीश्वर (इन्द्र) परमैश्वर्यवन् अविद्याविदारक जगदीश्वर आचार्य वा ! (वाजिनः) बलवन्तो वयम् (ते) तव (सख्ये) सखित्वे (मा भेम) मा भैष्म। [ञिभी भये इत्यस्माल्लुङि बहुलं छन्दसीति च्लेर्लुक्।] (जेतारम्) सर्वविघ्नविजयिनम्, (अपराजितम्) कयापि बाधया न पराजितम् (त्वाम्) जगदीश्वरमाचार्यं वा (अभि) अभिलक्ष्य, वयम् (प्र नोनुमः) अतिशयेन पुनः पुनः स्तुमः। [णु स्तुतौ इत्यस्माद् यङ्लुकि प्रयोगः।] ॥–२॥२
Essence
ब्रह्मबलात्मबलविद्याबलादिषु बलिष्ठो निखिलविपद्विजेता केनाप्यपराजितो जगदीश्वर आचार्यश्च यद्यस्माकं सखा जायते तर्हि निर्भयाः सन्तो वयं सर्वमप्युत्कर्षमधिगन्तुं पारयामः ॥–२॥
Subject
अथ जगदीश्वरमाचार्यं च प्रार्थयते।
Footnote
१. ऋ० १।११।२, ‘प्र णो॑नुमो॒’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतमीश्वरविषये सभाध्यक्षविषये च व्याख्यातवान्।