Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 827

1875 Mantra
Devata- इन्द्रः Rishi- जेता माधुच्छन्दसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
इ꣢न्द्रं꣣ वि꣡श्वा꣢ अवीवृधन्त्समु꣣द्र꣡व्य꣢चसं꣣ गि꣡रः꣢ । र꣣थी꣡त꣢मꣳ र꣣थी꣢नां꣣ वा꣡जा꣢ना꣣ꣳ स꣡त्प꣢तिं꣣ प꣡ति꣢म् ॥८२७॥

इ꣡न्द्र꣢꣯म् । वि꣡श्वाः꣢꣯ । अ꣣वीवृधन् । समुद्र꣡व्य꣢चसम् । स꣣मुद्र꣢ । व्य꣣चसम् । गि꣡रः꣢꣯ । र꣣थी꣡त꣢मम् । र꣣थी꣡ना꣢म् । वा꣡जा꣢꣯नाम् । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् । प꣡ति꣢꣯म् ॥८२७॥

Mantra without Swara
इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥

इन्द्रम् । विश्वाः । अवीवृधन् । समुद्रव्यचसम् । समुद्र । व्यचसम् । गिरः । रथीतमम् । रथीनाम् । वाजानाम् । सत्पतिम् । सत् । पतिम् । पतिम् ॥८२७॥

Samveda - Mantra Number : 827
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विश्वाः) सर्वाः (गिरः) वाचः (समुद्रव्यचसम्) समुद्रवद् अन्तरिक्षवद् वा विशालम्, उदारहृदयमित्यर्थः, (रथीनाम्) रथस्वामिनां मध्ये (रथीतमम्) श्रेष्ठं रथस्वामिनम्, (वाजानाम्) आत्मबलानां विद्याबलानां च (पतिम्) अधीश्वरम्, (सत्पतिम्) सतां जनानां विद्यार्थिनां वा पतिं पालकम् (इन्द्रम्) जगदीश्वरं विद्वांसम् आचार्यं वा (अवीवृधन्) महिम्ना (वर्धयन्ति) ॥–१॥२ ‘समुद्रव्यचसम् इन्द्रम्’ इत्यत्र वाचकलुप्तोपमालङ्कारः ॥–१॥
Essence
यथा जगदीश्वरो ब्रह्माण्डरथस्य श्रेष्ठः स्वामी वर्तते तथाऽऽचार्यो गुरुकुलरथस्य श्रेष्ठः कुलपतिर्भवति ॥–१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३४३ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र जगदीश्वरस्याचार्यस्य च विषयो वर्ण्यते।
Footnote
१. ऋ० १।११।१, य० १२।५६, १५।६१, १७।६१, साम० ३४३। २. दयानन्दर्षिर्मन्त्रमेतमृग्भाष्ये ईश्वरविजेतृशूरयोर्विषये, यजुर्भाष्ये च १२।५६ इत्यत्र कुमारकुमारीणां कर्त्तव्यविषये, १५।६१ इत्यत्र राजप्रजाविषये, १७।६१ इत्यत्र च जगत्स्रष्टुरीश्वरस्य गुणविषये व्याख्यातवान् ॥–