Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 826

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
मो꣢꣫ षु ब्र꣣ह्मे꣡व꣢ तदिन्द्र꣣यु꣡र्भुवो꣢꣯ वाजानां पते । म꣡त्स्वा꣢ सु꣣त꣢स्य꣣ गो꣡म꣢तः ॥८२६॥

मा । उ꣣ । सु꣢ । ब्र꣣ह्मा꣢ । इ꣣व । तन्द्रयुः꣢ । भु꣡वः꣢꣯ । वा꣣जानाम् । पते । म꣡त्स्व꣢꣯ । सु꣣त꣡स्य꣢ । गो꣡म꣢꣯तः ॥८२६॥

Mantra without Swara
मो षु ब्रह्मेव तदिन्द्रयुर्भुवो वाजानां पते । मत्स्वा सुतस्य गोमतः ॥

मा । उ । सु । ब्रह्मा । इव । तन्द्रयुः । भुवः । वाजानाम् । पते । मत्स्व । सुतस्य । गोमतः ॥८२६॥

Samveda - Mantra Number : 826
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वाजानां पते) बलानामधिपते मदीय अन्तरात्मन् ! (ब्रह्मा इव) यज्ञस्य ब्रह्मा इव उच्चपदे विद्यमानः त्वम् (मा उ सु) न खलु कदापि (तन्द्रयुः) आलस्यकामः (भुवः) भव। अपि च, (गोमतः सुतस्य) गोदुग्धयुक्तेन सोमरसेन, ज्ञानकर्मयुक्तेन उपासनारसेन इत्यर्थः। [तृतीयार्थे षष्ठी।] (मत्स्व) आनन्दं लभस्व। [मदी हर्षग्लेपनयोः भ्वादिः, आत्मनेपदं छान्दसम्] ॥–३॥ अत्रोपमालङ्कारः ॥–३॥
Essence
मनुष्यैः कदापि प्रमादो न कार्यः प्रत्युत जागरूकैर्भूत्वा सर्वेषु शुभकर्मसूत्साहः सदा धारणीयः ॥–३॥
Subject
अथ पुनरन्तरात्मानमुद्बोधयति।
Footnote
१. ऋ० ८।९२।३०, अथ० २०।६०।३।