Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 825

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣वा꣢ रा꣣ति꣡स्तु꣢विमघ꣣ वि꣡श्वे꣢भिर्धायि धा꣣तृ꣡भिः꣢ । अ꣡धा꣢ चिदिन्द्र नः꣣ स꣡चा꣢ ॥८२५॥

ए꣣व꣢ । रा꣣तिः꣢ । तु꣣विमघ । तुवि । मघ । वि꣡श्वे꣢꣯भिः । धा꣣यि । धातृ꣡भिः꣢ । अ꣡ध꣢꣯ । चि꣣त् । इन्द्र । नः । स꣡चा꣢꣯ ॥८२५॥

Mantra without Swara
एवा रातिस्तुविमघ विश्वेभिर्धायि धातृभिः । अधा चिदिन्द्र नः सचा ॥

एव । रातिः । तुविमघ । तुवि । मघ । विश्वेभिः । धायि । धातृभिः । अध । चित् । इन्द्र । नः । सचा ॥८२५॥

Samveda - Mantra Number : 825
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (तुविमघ) बहुधन परमेश ! (एव) सत्यमेव, तव (रातिः) दानम् (विश्वेभिः) सर्वैः (धातृभिः) धारकैः (धायि) अधायि, धियते। (अध चित्) तदतिरिक्तम्, हे (इन्द्र) परमैश्वर्यवन् विपत्तिविदारक परमात्मन्, त्वम् (नः) अस्माकम् (सचा) नित्यं सहभवः सखा भवसि ॥–२॥
Essence
जगदीश्वरश्चेदस्माकं सखा जायते तर्हि न किमप्यस्मभ्यं दुर्लभम् ॥–२॥
Subject
एवं स्वात्मानमुद्बोध्य सम्प्रति परमात्मानं ब्रूते।
Footnote
१. ऋ० ८।९२।२९, अथ० २०।६०।२ उभयत्र ‘तुविमघ’ इत्यत्र ‘तु॑वीमघ॒’ ‘नः’ इत्यत्र च ‘मे॒’ इति पाठः।