Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 824

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣वा꣡ ह्यसि꣢꣯ वीर꣣यु꣢रे꣣वा꣡ शूर꣢꣯ उ꣣त꣢ स्थि꣣रः꣢ । ए꣣वा꣢ ते꣣ रा꣢ध्यं꣣ म꣡नः꣢ ॥८२४॥

ए꣣व꣢ । हि । अ꣡सि꣢꣯ । वी꣣रयुः꣢ । ए꣣व꣢ । शू꣡रः꣢꣯ । उ꣣त꣢ । स्थि꣣रः꣢ । ए꣣व꣢ । ते꣣ । रा꣡ध्य꣢꣯म् । म꣡नः꣢꣯ ॥८२४॥

Mantra without Swara
एवा ह्यसि वीरयुरेवा शूर उत स्थिरः । एवा ते राध्यं मनः ॥

एव । हि । असि । वीरयुः । एव । शूरः । उत । स्थिरः । एव । ते । राध्यम् । मनः ॥८२४॥

Samveda - Mantra Number : 824
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मदीय अन्तरात्मन् ! त्वम् (एव हि) सत्यमेव (वीरयुः) वीरान् कामयमानः (असि) वर्तसे, (एव) सत्यमेव त्वम् (शूरः) वीरः (उत) अपि च (स्थिरः) विपत्सु युद्धेषु च अविचलः असि। (एव) सत्यमेव (ते) तव (मनः) चित्तम् (राध्यम्) साद्धुं योग्यम् अस्ति ॥–१॥
Essence
मनुष्यस्यात्मा चेत् स्वशक्तिं परिचिनुयात् तर्हि जगति महान्ति कर्माणि कर्त्तुं शक्नुयात् ॥–१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २३२ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र स्वान्तरात्मा समुद्बोध्यते।
Footnote
१. ऋ० ८।९२।२८, अथ० २०।६०।१। साम० २३२। ऋषिः श्रुतकक्षः।