Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 823

1875 Mantra
Devata- पवमानः सोमः Rishi- पृष्णयोऽजाः Chhand- जगती Swara- निषादः
Mantra with Swara
अ꣣यं꣡ पु꣢ना꣣न꣢ उ꣣ष꣡सो꣢ अरोचयद꣣य꣡ꣳ सिन्धु꣢꣯भ्यो अभवदु लोक꣣कृ꣢त् । अ꣣यं꣢꣫ त्रिः स꣣प्त꣡ दु꣢दुहा꣣न꣢ आ꣣शि꣢र꣣ꣳ सो꣡मो꣢ हृ꣣दे꣡ प꣢वते꣣ चा꣡रु꣢ मत्स꣣रः꣢ ॥८२३॥

अ꣣य꣢म् । पु꣣ना꣢नः । उ꣣ष꣡सः꣢ । अ꣣रोचयत् । अय꣢म् । सि꣡न्धु꣢꣯भ्यः । अ꣣भवत् । उ । लोककृ꣢त् । लो꣣क । कृ꣢त् । अ꣣य꣢म् । त्रिः । स꣣प्त꣢ । दु꣣दुहानः꣢ । आ꣣शि꣡र꣢म् । आ꣣ । शि꣡र꣢꣯म् । सो꣡मः꣢꣯ । हृ꣣दे꣢ । प꣣वते । चा꣡रु꣢꣯ । म꣣त्स꣢रः ॥८२३॥

Mantra without Swara
अयं पुनान उषसो अरोचयदयꣳ सिन्धुभ्यो अभवदु लोककृत् । अयं त्रिः सप्त दुदुहान आशिरꣳ सोमो हृदे पवते चारु मत्सरः ॥

अयम् । पुनानः । उषसः । अरोचयत् । अयम् । सिन्धुभ्यः । अभवत् । उ । लोककृत् । लोक । कृत् । अयम् । त्रिः । सप्त । दुदुहानः । आशिरम् । आ । शिरम् । सोमः । हृदे । पवते । चारु । मत्सरः ॥८२३॥

Samveda - Mantra Number : 823
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अयम्) एषः सोमः सर्वोत्पादकः परमात्मा (पुनानः) पावयन् (उषसः) प्रभातकान्तीः (अरोचयत्) अदीपयत्। (अयम्) एषः सोमः सर्वप्रेरकः परमात्मा (सिन्धुभ्यः) नदीभ्यः (लोककृत्) यशस्कृत् (अभवत् उ) अजायत खलु। (अयम्) एषः (सोमः) रसागारः परमात्मा (त्रिः सप्त) एकविंशतिच्छन्दोयुक्ता वेदवाग्रूपाः गाः (आशिरम्) ज्ञानदुग्धम् (दुदुहानः) दुहानः। [द्विकर्मकोऽयं दुह् धातुः।] (हृदे) उपासकस्य हृदयाय (मत्सरः) आनन्दजनकः सन् (चारु) रुचिरं यथा स्यात् तथा (पवते) प्रवहति ॥–३॥ अत्रैकेन सोमरूपेण कर्तृकारकेणानेकक्रियायोगाद् दीपकालङ्कारः ॥–३॥
Essence
परमात्मैव सर्वं सृष्टिकर्म सञ्चालयति, स एव वेदरूपां गां नः प्रददौ, स एव च स्तोतुर्हृदये रसं सञ्चारयति ॥–३॥ अस्मिन्नपि खण्डे परमेश्वरस्याचार्यस्य ब्रह्मानन्दरसादेश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥–
Subject
अथ पुनः परमात्मविषयमाह।
Footnote
१. ऋ० ९।८६।२१, ‘अरोचयदयं’ इत्यत्र ‘विरो॑चयद॒यं’ इति पाठः।