Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 822

1875 Mantra
Devata- पवमानः सोमः Rishi- सिकता निवावरी Chhand- जगती Swara- निषादः
Mantra with Swara
म꣣नीषि꣡भिः꣢ पवते पू꣣र्व्यः꣢ क꣣वि꣡र्नृभि꣢꣯र्य꣣तः꣢꣫ परि꣣ को꣡शा꣢ꣳ असिष्यदत् । त्रि꣣त꣢स्य꣣ ना꣡म꣢ ज꣣न꣢य꣣न्म꣢धु꣣ क्ष꣢र꣣न्नि꣡न्द्र꣢स्य वा꣣यु꣢ꣳ स꣣ख्या꣡य꣢ व꣣र्ध꣡य꣢न् ॥८२२॥

म꣢नी꣡षिभिः꣣ । प꣣वते । पूर्व्यः꣡ । क꣣विः꣢ । नृ꣡भिः꣢꣯ । य꣣तः꣢ । प꣡रि꣢꣯ । को꣡शा꣢꣯न् । अ꣣सिष्यदत् । त्रित꣡स्य꣢ । ना꣡म꣢꣯ । ज꣣न꣡य꣢न् । म꣡धु꣢꣯ । क्ष꣡र꣢꣯न् । इ꣡न्द्र꣢꣯स्य । वा꣡यु꣢म् । स꣣ख्या꣡य꣢ । स꣣ । ख्या꣡य꣢꣯ । व꣣र्द्ध꣡य꣢न् ॥८२२॥

Mantra without Swara
मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशाꣳ असिष्यदत् । त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायुꣳ सख्याय वर्धयन् ॥

मनीषिभिः । पवते । पूर्व्यः । कविः । नृभिः । यतः । परि । कोशान् । असिष्यदत् । त्रितस्य । नाम । जनयन् । मधु । क्षरन् । इन्द्रस्य । वायुम् । सख्याय । स । ख्याय । वर्द्धयन् ॥८२२॥

Samveda - Mantra Number : 822
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पूर्व्यः) श्रेष्ठः (कविः) वेदकाव्यस्य कविः, क्रान्तद्रष्टा, मेधावी स सोमः परमेश्वरः (पवते) हृदयानि पुनाति। (मनीषिभिः) मेधाविभिः (नृभिः) उपासकजनैः (यतः) परिगृहीतः, ध्यातः सः। [यमु उपरमे, निष्ठान्तं रूपम्।] (कोशान्) देहस्थेषु पञ्चकोशेषु (परि असिष्यदत्) परिस्रावयति रसम्, किञ्च, सः (त्रितस्य) त्रिभिर्ज्ञानकर्मोपासनैर्युक्तस्य उपासकस्य (नाम) यशः (जनयन्) उत्पादयन्, (मधु) आनन्दम् (क्षरन्) स्रावयन् (इन्द्रस्य) जीवात्मनः (सख्याय) सखित्वाय, तस्य (वायुम्) प्राणम् (वर्धयन्) वृद्धिं गमयन्, भवतीति शेषः ॥२॥
Essence
परमेश्वर उपासकं स्वसखायं कृत्वा तस्मै दिव्यमानन्दरूपं मधु स्रावयति ॥२॥
Subject
अथ परमात्मसोमो वर्ण्यते।
Footnote
१. ऋ० ९।८६।˜२० ‘परि॒ कोशाँ अचिक्रदत्’ ‘मधु॑ क्षर॒दिन्द्र॑स्य वा॒योः स॒ख्याय॒ कर्त॑वे’ इति पाठः।