Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 821

1875 Mantra
Devata- पवमानः सोमः Rishi- सिकता निवावरी Chhand- जगती Swara- निषादः
Mantra with Swara
वृ꣡षा꣢ मती꣣नां꣡ प꣢वते विचक्ष꣣णः꣢꣫ सोमो꣣ अ꣡ह्नां꣢ प्रतरी꣣तो꣡षसां꣢꣯ दि꣣वः꣢ । प्रा꣣णा꣡ सिन्धू꣢꣯नां क꣢ल꣡शा꣢ꣳ अचिक्रद꣣दि꣡न्द्र꣢स्य꣣ हा꣡र्द्या꣢वि꣣श꣡न्म꣢नी꣣षि꣡भिः꣢ ॥८२१॥

वृ꣡षा꣢꣯ । म꣣तीना꣢म् । प꣣वते । विचक्षणः꣣ । वि꣣ । चक्षणः꣣ । सो꣡मः꣢꣯ । अ꣡ह्ना꣢꣯म् । अ । ह्ना꣣म् । प्रतरीता꣢ । प्र꣣ । तरीता꣢ । उ꣣ष꣡सा꣢म् । दि꣣वः꣢ । प्रा꣣णा꣡ । प्र꣣ । आना꣢ । सि꣡न्धू꣢꣯नाम् । क꣣ल꣡शा꣢न् । अ꣣चिक्रदत् । इ꣡न्द्र꣢꣯स्य । हा꣡र्दि꣢꣯ । आ꣣विश꣢न् । आ꣢ । विश꣢न् । म꣣नीषि꣡भिः꣢ ॥८२१॥

Mantra without Swara
वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः । प्राणा सिन्धूनां कलशाꣳ अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥

वृषा । मतीनाम् । पवते । विचक्षणः । वि । चक्षणः । सोमः । अह्नाम् । अ । ह्नाम् । प्रतरीता । प्र । तरीता । उषसाम् । दिवः । प्राणा । प्र । आना । सिन्धूनाम् । कलशान् । अचिक्रदत् । इन्द्रस्य । हार्दि । आविशन् । आ । विशन् । मनीषिभिः ॥८२१॥

Samveda - Mantra Number : 821
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सोमः) एकः सोमः (विचक्षणः) विद्वान् आचार्यो वर्तते, यः (मतीनाम्) ज्ञानानाम् (वृषा) वर्षकः सन् (पवते) शिष्यान् पुनाति। द्वितीयः सोमः परमेश्वरोऽस्ति यः (अह्नाम्) दिवसानाम्, (उषसाम्) प्रभातरक्तिस्राम्, (दिवः) सूर्य्यस्य च (प्रतरीता) प्रकर्षेण तारयिता वर्तते। तृतीयः सोमः चन्द्रमाः अस्ति यः (सिन्धूनाम्) समुद्राणाम् (प्राणा) प्राणः प्राणयिता प्रवर्द्धको भवति। चतुर्थः सोमः सोमौषध्याः रसो विद्यते यः (कलशान्) द्रोणकलशपात्राणि (अचिक्रदत्) क्रन्दयति शब्दयति। पञ्चमः सोमो ब्रह्मानन्दरसोऽस्ति यः (मनीषिभिः) मनसा क्रियमाणैः स्तोत्रैः सह (इन्द्रस्य) जीवात्मनः (हार्दि) हृदयम् (आ विशत्) प्रविशति ॥१॥
Essence
वेदेषु ‘सोम’ शब्दस्य बहवो वाच्यार्था भवन्ति ये प्रकरणानुसारं वेदज्ञैः सुधीभिरुन्नेयाः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५५९ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र बहूनां सोमानां परिचयो दीयते।
Footnote
१. ऋ० ९।८६।१९ ‘सोमो॒ अह्नः॑’ ‘क्रा॒णा सिन्धू॑नां क॒लशाँ॑ अवीवश॒दिन्द्र॑स्य॒’ इति पाठः। साम० ५५९। अथ० १८।४।५८ ‘प्रा॒णः सिन्धू॑नां क॒लशाँ॑ अचिक्रद॒दिन्द्रस्य॒ हार्दि॑मावि॒शन्मिनीषया॑’ इत्युत्तरार्द्धपाठः।