Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 820

1875 Mantra
Devata- पवमानः सोमः Rishi- नहुषो मानवः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
य꣡ ओजि꣢꣯ष्ठ꣣स्त꣡मा भ꣢꣯र꣣ प꣡व꣢मान श्र꣣वा꣡य्य꣢म् । यः꣡ पञ्च꣢꣯ चर्ष꣣णी꣢र꣣भि꣢ र꣣यिं꣢꣫ येन꣣ व꣡ना꣢महे ॥८२०॥

यः । ओ꣡जि꣢꣯ष्ठः । तम् । आ । भ꣣र । प꣡व꣢꣯मान । श्र꣣वा꣡य्य꣢म् । यः । प꣡ञ्च꣢꣯ । च꣣र्षणीः꣢ । अ꣣भि꣢ । र꣣यि꣢म् । ये꣡न꣢꣯ । व꣡ना꣢꣯महे ॥८२०॥

Mantra without Swara
य ओजिष्ठस्तमा भर पवमान श्रवाय्यम् । यः पञ्च चर्षणीरभि रयिं येन वनामहे ॥

यः । ओजिष्ठः । तम् । आ । भर । पवमान । श्रवाय्यम् । यः । पञ्च । चर्षणीः । अभि । रयिम् । येन । वनामहे ॥८२०॥

Samveda - Mantra Number : 820
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पवमान) पवित्रकर्त्तः परमात्मन् आचार्य वा ! (यः) यः त्वदीयः (ओजिष्ठः) ओजस्वितमः आनन्दरसः ज्ञानरसो वा अस्ति (तम् श्रवाय्यम्) तं यशोहेतुकं रसम्। [श्रावयतीति श्रवाय्यः। शृणोतेः ‘श्रुदक्षिस्पृहिभ्य आय्यः।’ उ० ३।९६ इति आय्यप्रत्ययः।] (आ भर) आ हर, (यः) आनन्दरसो ज्ञानरसो वा (पञ्च चर्षणीः२) पञ्च ज्ञानसाधनानि इन्द्रियाणि पञ्च प्राणान् वा (अभि) अभिव्याप्नुयात् (येन) आनन्दरसेन ज्ञानरसेन वा, वयम् (रयिम्) भौतिकम् आध्यात्मिकं च धनम् (वनामहे) सम्भजामहे ॥३॥
Essence
यथा परमात्मा स्वोपासकाय तादृशमानन्दं प्रयच्छति येन स दिव्यां सम्पदं लभते तथैव गुरुभिर्विद्यार्थिभ्यस्तादृशं ज्ञानं देयं येन धनार्जनं सुलभं स्यात् ॥३॥
Subject
अथ परमात्मानमाचार्यं च प्राह।
Footnote
१. ऋ० ९।१०१।९, ‘वना॑महे’ इत्यत्र ‘वनामहै’ इति पाठः। २. पञ्च चर्षणीः पञ्च जनान् निषादपञ्चमान् चतुरो वर्णान्—इति सा०। चर्षणयो मनुष्याः। चत्वारो महर्त्विजः, पञ्चमो यजमानः—इति वि०।