Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 82

1875 Mantra
Devata- अग्निः Rishi- वामदेवः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
य꣡दि꣢ वी꣣रो꣢꣫ अनु꣣ ष्या꣢द꣣ग्नि꣡मि꣢न्धीत꣣ म꣡र्त्यः꣢ । आ꣣जु꣡ह्व꣢द्ध꣣व्य꣡मा꣢नु꣣ष꣡क्शर्म꣢꣯ भक्षीत꣣ दै꣡व्य꣢म् ॥८२

य꣡दि꣢꣯ । वी꣣रः꣢ । अ꣡नु꣢꣯ । स्यात् । अ꣣ग्नि꣢म् । इ꣣न्धीत । म꣡र्त्यः꣢꣯ । आ꣣जु꣡ह्व꣢त् । आ꣣ । जु꣡ह्व꣢꣯त् । ह꣣व्य꣢म् । आ꣣नुष꣢क् । अ꣣नु । स꣢क् । श꣡र्म꣢꣯ । भ꣣क्षीत । दै꣡व्य꣢꣯म् ॥८२॥१

Mantra without Swara
यदि वीरो अनु ष्यादग्निमिन्धीत मर्त्यः । आजुह्वद्धव्यमानुषक्शर्म भक्षीत दैव्यम् ॥८२

यदि । वीरः । अनु । स्यात् । अग्निम् । इन्धीत । मर्त्यः । आजुह्वत् । आ । जुह्वत् । हव्यम् । आनुषक् । अनु । सक् । शर्म । भक्षीत । दैव्यम् ॥८२॥१

Samveda - Mantra Number : 82
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यदि) चेद् (वीरः) पुत्रः (अनु) अनुव्रतः, वेदानुकूलव्रतः (स्यात्) भवेत्, (मर्त्यः) मरणधर्मा सः (अग्निम्) यज्ञाग्निं राष्ट्रियताया अग्निम्, परमात्माग्निं च (इन्धीत) प्रदीपयेत्। इन्धी दीप्तौ, लिङि रूपम्। (आनुषक्) निरन्तरम्, नैत्यिककर्त्तव्यरूपेण (हव्यम्) अग्नौ सुगन्धिमिष्टपुष्ट्यारोग्यवर्द्धकं हविः, राजनि राजदेयकररूपं हविः, परमात्मनि च मनोबुद्धिप्राणादीनां हविः (आजुह्वत्) समर्पयेत्। आङ्पूर्वाद् हु दानादनयोः धातोः लेटि रूपम्। तर्हि (दैव्यम्) देवेन यज्ञाग्निना, राज्ञा, परमात्मना वा कृतम्। कृतार्थे देवाद् ययञौ अ० ४।१।८५ वा० सूत्रेण यञ् प्रत्ययः। (शर्म) सुखम्। शर्म सुखनाम। निघं० ३।६। (भक्षीत) सेवेत। भज सेवायाम्, लिङः सीयुटि, बहुलं छन्दसि अ० २।४।७३ इति शपो लुकि रूपम् ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
Essence
अस्माकं पुत्राः पुत्र्यश्च स्वमरणधर्मतां विचार्य यदि वेदानुकूलाचारं स्वीकृत्य नित्यं यज्ञाग्नौ घृतकस्तूरीकेसरादिकं हविः, राजादौ राजदेयकररूपं हविः, परमात्माग्नौ च स्वात्ममनोबुद्धिप्राणेन्द्रियादीनां हविर्जुहुयुस्तदा तैः सकलमभ्युदयनिःश्रेयसरूपं सुखं भोक्तुं शक्यते ॥२॥
Subject
अथास्माकं सन्तानः कीदृशो भवेदिति प्रार्थ्यते।
Footnote
१. ऋग्वेदे शाकलीये पदपाठे सर्वत्रावग्रहरहितो दीर्घादिश्च आनुषक् इत्येव पाठ उपलभ्यते। अनूपूर्वात् सचतेर्दीर्घश्छान्दसः। आनुषगिति नाम आनुपूर्व्यस्य, अनुषक्तं भवति इति निरुक्तम् ६।१४।