Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 819

1875 Mantra
Devata- पवमानः सोमः Rishi- नहुषो मानवः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
स꣡मु꣢ प्रि꣣या꣡ अ꣢नूषत꣣ गा꣢वो꣣ म꣡दा꣢य꣣ घृ꣡ष्व꣢यः । सो꣡मा꣢सः कृण्वते प꣣थः꣡ पव꣢꣯मानास꣣ इ꣡न्द꣢वः ॥८१९॥

सम् । उ꣣ । प्रियाः꣢ । अ꣣नूषत । गा꣡वः꣢꣯ । म꣡दा꣢꣯य । घृ꣡ष्व꣢꣯यः । सो꣡मा꣢꣯सः । कृ꣣ण्वते । पथः꣢ । प꣡व꣢꣯मानासः । इ꣡न्द꣢꣯वः ॥८१९॥

Mantra without Swara
समु प्रिया अनूषत गावो मदाय घृष्वयः । सोमासः कृण्वते पथः पवमानास इन्दवः ॥

सम् । उ । प्रियाः । अनूषत । गावः । मदाय । घृष्वयः । सोमासः । कृण्वते । पथः । पवमानासः । इन्दवः ॥८१९॥

Samveda - Mantra Number : 819
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—ब्रह्मानन्दरसपक्षे। (प्रियाः) परमेश्वरप्रियाः (घृष्वयः) मानससंघर्षरताः (गावः) स्तोतारः। [गौः इति स्तोतृनामसु पठितम्। निघं० ३।१६।] (मदाय) आनन्दप्राप्तये (सम् उ अनूषत) परमेश्वरं संस्तुवन्ति। तत्स्तवनेन प्राप्ताः (इन्दवः) दीप्ताः क्लेदनकराः वा। [इन्दुः इन्धेः उनत्तेर्वा। निरु० १०।४१।] (सोमासः) ब्रह्मानन्दरसाः (पवमानासः) स्तोतॄन् पवित्रीकुर्वन्तः, तेषां सम्मुखं (पथः) कर्तव्यमार्गान् (कृण्वते) स्पष्टीकुर्वन्ति ॥ द्वितीयः—गुरूणां पक्षे। (प्रियाः) प्रीतिकर्यः, मधुराः (घृष्वयः२) घर्षणेन पुनः पुनरभ्यासेन उज्ज्वलाः (गावः) शिष्याणां वाचः (मदाय) आनन्दप्राप्तये (सम् उ अनूषत) गुरून् संस्तुवन्ति। ते (इन्दवः) ज्ञानेन दीप्ताः (सोमासः) ज्ञानप्रेरकाः गुरुजनाः (पवमानासः) शिष्यान् पुनन्तः, तेषां पुरतः (पथः) गन्तव्यान् मार्गान् (कृण्वते) स्पष्टीकुर्वन्ति ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
Essence
जनैः परमात्मानं गुरुजनांश्च संस्तूय तत आनन्दरसं ज्ञानरसं च दुग्ध्वा तत्पानेन स्वात्मानं पवित्वा सन्मार्गोऽनुसरणीयः ॥२॥
Subject
अथ ब्रह्मानन्दरसा गुरवश्च वर्ण्यन्ते।
Footnote
१. ऋ० ९।१०१।८। २. घृष्वयः अत्यन्तदीप्ताः—इति सा०।