Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 817

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡म्मि꣢श्लो अरु꣣षो꣡ भु꣢वः सूप꣣स्था꣡भि꣣र्न꣢ धे꣣नु꣡भिः꣢ । सी꣡द꣢ञ्छ्ये꣣नो꣢꣫ न यो꣣निमा꣢ ॥८१७॥

सं꣡मि꣢꣯श्लः । सम् । मि꣣श्लः । अरुषः꣢ । भु꣣वः । सूपस्था꣡भिः꣢ । सु꣣ । उपस्था꣡भिः꣢ । न । धे꣣नु꣡भिः꣢ । सी꣡द꣢꣯न् । श्ये꣣नः꣢ । न । यो꣡नि꣢꣯म् । आ ॥८१७॥

Mantra without Swara
सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभिः । सीदञ्छ्येनो न योनिमा ॥

संमिश्लः । सम् । मिश्लः । अरुषः । भुवः । सूपस्थाभिः । सु । उपस्थाभिः । न । धेनुभिः । सीदन् । श्येनः । न । योनिम् । आ ॥८१७॥

Samveda - Mantra Number : 817
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम पवित्रकर्त्तः सद्गुणकर्मस्वभावप्रेरक परमात्मन् आचार्य वा ! (अरुषः) तेजसा आरोचमानः त्वम् [अरुषम् इति रूपनाम। निघं० ३।७।] (सूपस्थाभिः धेनुभिः) शोभनतया उपस्थिताभिः प्रीणयित्रीभिः अस्माकं स्तुतिवाग्भिः गोभिर्वा। [धेनुरिति वाङ्नाम। निघं० १।११। धेनुः धयतेर्वा धिनोतेर्वा। निरु० ११।४३।] (न२) सम्प्रति (सम्मिश्लः भुवः) सम्मानितः भव। अपि च (श्येनः योनिं न) श्येनः पक्षी यथा आवासवृक्षं यद्वा आदित्यो यथा द्युलोकरूपं गृहमासीदति तथा (श्येनः) शंसनीयगमनः त्वम् (योनिम्) हृदयसदनं गुरुकुलगृहं वा (आसीदन्) निवसन् (भुवः) भव। [श्येनः शंसनीयं गच्छति। निरु० ४।२४। श्येन आदित्यो भवति, श्यायतेर्गतिकर्मणः। निरु० १३।७२। योनिरिति गृहनाम। निघं० ३।४।] ॥३॥ अत्र श्लिष्टोपमालङ्कारः ॥३॥
Essence
यथा द्रोणकलशे स्थापितः सोमरसः गोदुग्धैः संमिय सम्मान्यते, तथैव हृदयसदने स्थापितः परमेश्वरः स्तुतिवाग्भिर्गुरुकुले स्थापित आचार्यश्च धेनुभिः संमाननीयः ॥३॥
Subject
अथ परमेश्वरमाचार्यं च प्रार्थयते।
Footnote
१. ऋ० ९।६१।२१, ‘भुवः’ इत्यत्र ‘भ॑व’ इति पाठः। २. न सम्प्रत्यर्थे इति सा०।