Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 813

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
त्वा꣢मि꣣दा꣡ ह्यो नरोऽपी꣢꣯प्यन्वज्रि꣣न्भू꣡र्ण꣢यः । स꣡ इ꣢न्द्र꣣ स्तो꣡म꣢वाहस इ꣣ह꣢ श्रु꣣ध्यु꣢प꣣ स्व꣡स꣢र꣣मा꣡ ग꣢हि ॥८१३॥

त्वा꣢म् । इ꣣दा꣢ । ह्यः । न꣡रः꣢꣯ । अ꣡पी꣢꣯प्यन् । व꣢ज्रिन् । भू꣡र्ण꣢꣯यः । सः । इ꣣न्द्र । स्तो꣡म꣢꣯वाहसः । स्तो꣡म꣢꣯ । वा꣣हसः । इह꣢ । श्रु꣣धि । उ꣡प꣢꣯ । स्व꣡स꣢꣯रम् । आ । ग꣣हि ॥८१३॥

Mantra without Swara
त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः । स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि ॥

त्वाम् । इदा । ह्यः । नरः । अपीप्यन् । वज्रिन् । भूर्णयः । सः । इन्द्र । स्तोमवाहसः । स्तोम । वाहसः । इह । श्रुधि । उप । स्वसरम् । आ । गहि ॥८१३॥

Samveda - Mantra Number : 813
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वज्रिन्) दोषवर्जक विद्वन् ! (त्वाम् इत्) त्वां खलु (भूर्णयः) वैभवशालिनः। [बिभ्रति धनानि ये ते भूर्णयः। डुभृञ् धारणपोषणयोः इत्यस्मात् ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः’। उ० ४।५३ इत्यनेन निः प्रत्ययः धातोः ऋकारस्य ऊत्वं च।] (नरः) जनाः (इदा) अस्मिन् वर्तमाने काले (ह्यः) गते काले च (अपीप्यन्) उपहारादिप्रदानैः वर्धयन्ति वर्द्धितवन्तश्च। [ओप्यायी वृद्धौ इत्यस्येदं रूपम्।] (सः) असौ, हे (इन्द्र) विद्यैश्वर्ययुक्त विद्वन् ! (स्तोमवाहसः) स्तोमं स्तोत्रं पदार्थसंभारं वा त्वां प्रति वाहयन्ति प्रापयन्ति ये तान्, अस्मान् (इह) अत्र (श्रुधि) शृणु, अस्मन्निवेदनं शृणु इत्यर्थः, श्रुत्वा चास्मदातिथ्यं ग्रहीतुमस्मानुपदेष्टुं च (स्वसरम्) अस्मद्गृहम्। [स्वसराणि इति गृहनामसु पठितम्। निघं० ३।४।] (उप आगहि) उपागच्छ ॥१॥
Essence
सर्वैरुन्नतिकामैर्जनैर्विद्वांसः सत्करणीया विद्वद्भिरपि चाधीताः सर्वा विद्यास्तेभ्यो दातव्याः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३०२ क्रमाङ्के परमेश्वरनृपत्योः पक्षे व्याख्याता। अत्र विद्वद्विषय उच्यते।
Footnote
१. ऋ० ८।९९।१, ‘स्तोम॑वाहसामि॒ह’ इति पाठः, साम० ३०२।