Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 812

1875 Mantra
Devata- इन्द्रः Rishi- प्रस्कण्वः काण्वः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
श꣣ता꣡नी꣢केव꣣ प्र꣡ जि꣢गाति धृष्णु꣣या꣡ हन्ति꣢꣯ वृ꣣त्रा꣡णि꣢ दा꣣शु꣡षे꣢ । गि꣣रे꣡रि꣢व꣣ प्र꣡ रसा꣢꣯ अस्य पिन्विरे꣣ द꣡त्रा꣢णि पुरु꣣भो꣡ज꣢सः ॥८१२॥

श꣣ता꣡नी꣢का । श꣣त꣢ । अ꣣नीका । इव । प्र꣢ । जि꣣गाति । धृष्णुया꣢ । ह꣡न्ति꣢꣯ । वृ꣣त्रा꣡णि꣢ । दा꣣शु꣡षे꣢ । गि꣣रेः꣢ । इ꣣व । प्र꣢ । र꣡साः꣢꣯ । अ꣣स्य । पिन्विरे । द꣡त्रा꣢꣯णि । पु꣣रुभो꣡ज꣢सः । पु꣣रु । भो꣡ज꣢꣯सः ॥८१२॥

Mantra without Swara
शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥

शतानीका । शत । अनीका । इव । प्र । जिगाति । धृष्णुया । हन्ति । वृत्राणि । दाशुषे । गिरेः । इव । प्र । रसाः । अस्य । पिन्विरे । दत्राणि । पुरुभोजसः । पुरु । भोजसः ॥८१२॥

Samveda - Mantra Number : 812
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
एष इन्द्रः परमैश्वर्यवान् परमात्मा विद्यैश्वर्यवान् आचार्यो वा (दाशुषे) आत्मसमर्पकस्य उपासकस्य शिष्यस्य वा हितार्थम् (धृष्णुया) स्वकीयेन धर्षकगुणेन (शतानीका इव) शतानीकानि शतसंख्यकानि शत्रुसैन्यानि इव (वृत्राणि) उपासकस्य शिष्यस्य वा छिद्राणि (प्र जिगाति) प्र गच्छति आक्रामति इति यावत्। [जिगातिः गतिकर्मा। निघं० २।१४।] (हन्ति) हिनस्ति च। (पुरुभोजसः) बहुपालकस्य (अस्य) परमात्मनः आचार्यस्य वा (दत्राणि) दानानि। (पिन्विरे) उपासकं शिष्यं वा प्रति प्रवहन्ति, (गिरेः इव रसाः) पर्वतस्य यथा जलानि प्रवहन्ति ॥२॥ अत्र द्वयोरुपमयोः संसृष्टिः ॥२॥
Essence
परमात्मानमाचार्यं च प्रति समर्पणभावेन गत्वा, तत्साहाय्येन दोषान् दूरीकृत्यानन्दरसा विद्यारसाश्च प्राप्तव्याः ॥२॥
Subject
अथ परमात्मानमाचार्यं च वर्णयति।
Footnote
१. ऋ० ८।४९।२, अथ० २०।५१।२।