Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 811

1875 Mantra
Devata- इन्द्रः Rishi- प्रस्कण्वः काण्वः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
अ꣣भि꣡ प्र वः꣢꣯ सु꣣रा꣡ध꣢स꣣मि꣡न्द्र꣢मर्च꣣ य꣡था꣢ वि꣣दे꣢ । यो꣡ ज꣢रि꣣तृ꣡भ्यो꣢ म꣣घ꣡वा꣢ पुरू꣣व꣡सुः꣢ स꣣ह꣡स्रे꣢णेव꣣ शि꣡क्ष꣢ति ॥८११॥

अ꣣भि꣢ । प्र । वः꣣ । सुरा꣡ध꣢सम् । सु꣣ । रा꣡ध꣢꣯सम् । इ꣡न्द्र꣢꣯म् । अ꣣र्च । य꣡था꣢꣯ । वि꣣दे꣢ । यः । ज꣣रितृ꣡भ्यः꣢ । म꣣घ꣡वा꣢ । पु꣣रूव꣡सुः꣢ । पु꣣रु । व꣡सुः꣢꣯ । स꣣ह꣡स्रे꣢ण । इ꣢व । शि꣡क्ष꣢꣯ति ॥८११॥

Mantra without Swara
अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे । यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥

अभि । प्र । वः । सुराधसम् । सु । राधसम् । इन्द्रम् । अर्च । यथा । विदे । यः । जरितृभ्यः । मघवा । पुरूवसुः । पुरु । वसुः । सहस्रेण । इव । शिक्षति ॥८११॥

Samveda - Mantra Number : 811
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे छात्राः ! (वः) यूयम् (सुराधसम्) सुसिद्धिप्रदायकम् (इन्द्रम्) तपोरूपैश्वर्यवन्तम् आचार्यम् (अर्च) अर्चत, समित्पाणयो भूत्वा तच्छरणमुपगम्य तं परिचरत। [अत्र पुरुषव्यत्ययः।] (यथा विदे) येन स युष्माकं विद्याग्रहणयोग्यतां जानीयात्। कीदृशम् आचार्यम् ? (यः पुरूवसुः) बहुविद्याधनः (मघवा) विद्यादानवान्२ आचार्यः (जरितृभ्यः) स्तोतृभ्यः छात्रेभ्यः (सहस्रेण इव) मुखसहस्रेण इव (शिक्षति) शिक्षयति। [णिज्गर्भोऽयं प्रयोगः] ॥१॥ सहस्रेण इव इत्यत्रोत्प्रेक्षालङ्कारः ॥१॥
Essence
आचार्यसकाशादेव लोकविद्या ब्रह्मविद्या च प्राप्यत इति तन्महत्त्वं विज्ञाय कृतज्ञतया स सर्वैः संमाननीयः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २३५ क्रमाङ्के परमेश्वरार्चनविषये व्याख्याता। अत्राचार्यविषयो वर्ण्यते।
Footnote
१. ऋ० ८।४९।१, साम० २३५, अथ० २०।५१।१। २. मघं दानं मंहतेः, दानवान् नित्यदानः—इति भ०।