Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 81

1875 Mantra
Devata- अग्निः Rishi- गय आत्रेय Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣢ग्न꣣ ओ꣡जि꣢ष्ठ꣣मा꣡ भ꣢र द्यु꣣म्न꣢म꣣स्म꣡भ्य꣢मध्रिगो । प्र꣡ नो꣢ रा꣣ये꣡ पनी꣢꣯यसे꣣ र꣢त्सि꣣ वा꣡जा꣢य꣣ प꣡न्था꣢म् ॥८१॥

अ꣡ग्ने꣢꣯ । ओ꣡जि꣢꣯ष्ठम् । आ । भ꣣र । द्युम्न꣢म् । अ꣣स्म꣡भ्य꣢म् । अ꣣ध्रिगो । अध्रि । गो । प्र꣢ । नः꣣ । राये꣢ । प꣡नी꣢꣯यसे । र꣡त्सि꣢꣯ । वा꣡जा꣢꣯य । प꣡न्था꣢꣯म् ॥८१॥

Mantra without Swara
अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो । प्र नो राये पनीयसे रत्सि वाजाय पन्थाम् ॥

अग्ने । ओजिष्ठम् । आ । भर । द्युम्नम् । अस्मभ्यम् । अध्रिगो । अध्रि । गो । प्र । नः । राये । पनीयसे । रत्सि । वाजाय । पन्थाम् ॥८१॥

Samveda - Mantra Number : 81
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अध्रिगो) अप्रतिहतगमन, अप्रतिहततेजस्क वा। अध्रि अधृतम् अनवरुद्धं यथा स्यात्तथा गच्छतीति अध्रिगुः। अध्रिगो अधृतगमन इति निरुक्तम्। ५।१०। यद्वा, अध्रयः अधृता गावः तेजः—किरणा यस्य सः। तत्संबुद्धौ अध्रिगो इति। (अग्ने) अग्रनेतः परमात्मन् राजन् आचार्य वा ! त्वम् (अस्मभ्यम्) अस्माकं कृते (ओजिष्ठम्) अतिशयेन ओजोयुक्तम्, अतिप्रबलम् (द्युम्नम्२) यशस्तेजोऽन्नं वा। द्युम्नं द्योततेः, यशो वाऽन्नं वा। निरु० ५।५। (आभर) आहर। (नः) अस्मभ्यम् (पनीयसे) अतिशयस्तुत्या। पण व्यवहारे स्तुतौ च। अतिशायने ईयसुन् प्रत्ययः। (राये) ऐहिकपारमार्थिकधनाय, (वाजाय) शारीरिकाध्यात्मिकबलाय च (पन्थाम्) पन्थानम् मार्गम् (प्र रत्सि३) प्र रद, प्रकृष्टतया विलिख, सज्जीकुरु। रद विलेखने, भ्वादिः। लोटि बहुलं छन्दसि अ० २।४।७३ इति शपो लुक्। सेर्हिकारादेशाभावश्छान्दसः।४ ॥१॥ अत्र श्लेषालङ्कारः ॥१॥
Essence
परमात्मवन्नृपतिर्विद्वानाचार्यश्च तं सन्मार्गमस्मानुपदिशेद् यमनुसरन्तो वयं प्रबलां जगद्व्यापिनीं कीर्तिम्, अनतिक्रमणीयां श्लाघ्यां दीप्तिं, सकलान् भोज्यपदार्थान्, सुवर्णरजतहीरकमुक्ता- मणि-धेनु-पुत्र-पौत्र-रथ-प्रासाद-शस्त्रास्त्र-विद्याधर्मारोग्यचक्रवर्तिराज्य- मोक्षादिस्वरूपं विविधं धनं, दैहिकमात्मिकं च बलं स्वपुरुषार्थेन तदनुग्रहेण च प्राप्नुयाम ॥१॥
Subject
अथाग्निनाम्ना परमेश्वरो नृपतिराचार्यश्च प्रार्थ्यते।
Footnote
१. ऋ० ५।१०।१ प्र नो राया परीणसा इति तृतीयः पादः। २. यशो धनं वा—इति ऋ० ५।१०।१ भाष्ये द०। ३. रत्सि। लडयं लोडर्थे द्रष्टव्यः। राहि। प्रकर्षेण देहीत्यर्थः—इति वि०। प्रकर्षेण विलिख, रदिर्विलेखनकर्मा। कुरु इत्यर्थः—इति भ०। ४. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं विद्वत्पक्षे व्याख्यातः।