Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 809

1875 Mantra
Devata- इन्द्रः Rishi- शंयुर्बार्हस्पत्यः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
त्वा꣡मिद्धि हवा꣢꣯महे सा꣣तौ꣡ वाज꣢꣯स्य का꣣र꣡वः꣢ । त्वां꣢ वृ꣣त्रे꣡ष्वि꣢न्द्र꣣ स꣡त्प꣢तिं꣣ न꣢र꣣स्त्वां꣢꣫ काष्ठा꣣स्व꣡र्व꣢तः ॥८०९॥

त्वा꣢म् । इत् । हि । ह꣡वा꣢꣯महे । सा꣣तौ꣢ । वा꣡ज꣢꣯स्य । का꣣र꣡वः꣢ । त्वाम् । वृ꣣त्रे꣡षु꣢ । इ꣣न्द्र । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् । न꣡रः꣢꣯ । त्वाम् । का꣡ष्ठा꣢꣯सु । अ꣡र्व꣢꣯तः ॥८०९॥

Mantra without Swara
त्वामिद्धि हवामहे सातौ वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥

त्वाम् । इत् । हि । हवामहे । सातौ । वाजस्य । कारवः । त्वाम् । वृत्रेषु । इन्द्र । सत्पतिम् । सत् । पतिम् । नरः । त्वाम् । काष्ठासु । अर्वतः ॥८०९॥

Samveda - Mantra Number : 809
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमात्मन् जीवात्मन् वा ! कर्मशूराः वयम् (वाजस्य) संग्रामस्य (सातौ) प्राप्तौ (त्वाम् इत् हि) त्वामेव खलु (हवामहे) आह्वयामः उद्बोधयामो वा। (वृत्रेषु) शत्रुषु विघ्नेषु वा उपद्रुतेषु (सत्पतिम्) सतां पालकम् (त्वाम्) त्वामेव हवामहे आह्वयामः उद्बोधयामो वा। (नरः) सर्वेऽपि मनुष्याः (काष्ठासु) दिक्षु (अर्वतः) हिंसकात् शत्रोः त्रातुम् इति शेषः। [अर्व हिंसायाम्, भ्वादिः।] (त्वाम्) त्वामेव हवन्ते आह्वयन्ति उद्बोधयन्ति वा ॥१॥२
Essence
परमात्मनः कृपयाऽऽत्मोद्बोधनेन च सर्वेऽपि विघ्नाः सर्वेऽपि च शत्रवः क्षणेन पराजेतुं शक्यन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २३४ क्रमाङ्के परमेश्वरनृपत्योः पक्षे व्याख्याता। अत्र परमात्मा जीवात्मा चाहूयते।
Footnote
१. ऋ० ६।४६।१, अथ० २०।९८।१, उभयत्र ‘सा॒ ता’ इति पाठः। य० २७।३७। साम० २३४। ऋषिः भरद्वाजः बार्हस्पत्यः। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये शिल्पविद्याविषयं यजुर्भाष्ये च राजधर्मविषयमधिकृत्य व्याख्यातवान्।