Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 807

1875 Mantra
Devata- पवमानः सोमः Rishi- उपमन्युर्वासिष्ठः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
र꣣सा꣢य्यः꣣ प꣡य꣢सा꣣ पि꣡न्व꣢मान ई꣣र꣡य꣢न्नेषि꣣ म꣡धु꣢मन्तम꣣ꣳशु꣢म् । प꣡व꣢मान सन्त꣣नि꣡मे꣢षि कृ꣣ण्व꣡न्निन्द्रा꣢꣯य सोम परिषि꣣च्य꣡मा꣢नः ॥८०७॥

र꣣सा꣡स्यः꣢ । प꣡य꣢꣯सा । पि꣡न्व꣢꣯मानः । ई꣣र꣡य꣢न् । ए꣣षि । म꣡धु꣢꣯मन्तम् । अ꣣ꣳशु꣢म् । प꣡व꣢꣯मान । स꣣न्तनि꣢म् । स꣣म् । त꣢निम् । ए꣣षि । कृण्व꣢न् । इ꣡न्द्रा꣢꣯य । सो꣣म । परिषिच्य꣡मा꣢नः । प꣣रि । सिच्य꣡मा꣢नः ॥८०७॥

Mantra without Swara
रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमꣳशुम् । पवमान सन्तनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः ॥

रसास्यः । पयसा । पिन्वमानः । ईरयन् । एषि । मधुमन्तम् । अꣳशुम् । पवमान । सन्तनिम् । सम् । तनिम् । एषि । कृण्वन् । इन्द्राय । सोम । परिषिच्यमानः । परि । सिच्यमानः ॥८०७॥

Samveda - Mantra Number : 807
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पवमान सोम) सर्वजगत्स्रष्टः शुभगुणप्रेरक सर्वान्तर्यामिन् जगदीश्वर ! (रसाय्यः) रसेन पूर्णः। [रसेर्बाहुलकादौणादिक आय्यप्रत्ययः।] (पयसा) रसेन (पिन्वमानः) उपासकस्य मम हृदयं सिञ्चमानः, त्वम् (मधुमन्तम्) मधुरम् (अंशुम्) आनन्दम् (ईरयन्) गमयन् (एषि) मां प्राप्नोषि। (इन्द्राय) जीवात्मने (परिषिच्यमानः) निर्झरन् त्वम् तत्र (सन्तनिम्) विस्तारम् (कृण्वन्) कुर्वन् (एषि) व्याप्नोषि ॥२॥
Essence
आनन्दरसपूर्णस्य परमात्मन आनन्दधारया सिक्तानि स्तोतॄणां हृदयानि सरसानि जायन्ते ॥२॥
Subject
अथ जीवात्मनि ब्रह्मानन्दरसप्रवाहो वर्ण्यते।
Footnote
१. ऋ० ९।९७।१४।