Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 806

1875 Mantra
Devata- पवमानः सोमः Rishi- उपमन्युर्वासिष्ठः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वृ꣢षा꣣ शो꣡णो꣢ अभि꣣क꣡नि꣢क्रद꣣द्गा꣢ न꣣द꣡य꣢न्नेषि पृथि꣣वी꣢मु꣣त꣢ द्याम् । इ꣡न्द्र꣢स्येव व꣣ग्नु꣡रा शृ꣢꣯ण्व आ꣣जौ꣡ प्र꣢चो꣣द꣡य꣢न्नर्षसि꣣ वा꣢च꣣मे꣢माम् ॥८०६॥

वृ꣡षा꣢꣯ । शो꣡णः꣢꣯ । अ꣣भिक꣡नि꣢क्रदत् । अ꣣भि । क꣡नि꣢꣯क्रदत् । गाः । न꣣द꣡य꣢न् । ए꣣षि । पृथिवी꣣म् । उ꣣त꣢ । द्याम् । इ꣡न्द्र꣢꣯स्य । इ꣣व । वग्नुः꣢ । आ । शृ꣣ण्वे । आजौ꣢ । प्र꣣चोद꣡य꣢न् । प्र꣣ । चोद꣡य꣢न् । अ꣣र्षसि । वा꣡च꣢꣯म् । आ । इ꣣मा꣢म् ॥८०६॥

Mantra without Swara
वृषा शोणो अभिकनिक्रदद्गा नदयन्नेषि पृथिवीमुत द्याम् । इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचोदयन्नर्षसि वाचमेमाम् ॥

वृषा । शोणः । अभिकनिक्रदत् । अभि । कनिक्रदत् । गाः । नदयन् । एषि । पृथिवीम् । उत । द्याम् । इन्द्रस्य । इव । वग्नुः । आ । शृण्वे । आजौ । प्रचोदयन् । प्र । चोदयन् । अर्षसि । वाचम् । आ । इमाम् ॥८०६॥

Samveda - Mantra Number : 806
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम परमात्मन् ! (वृषा) वर्षकः, (शोणः) क्रियाशीलः त्वम् [शोणृ वर्णगत्योः, भ्वादिः।] (गाः) स्तनयित्नुवाचः (अभिकनिक्रदत्) अभिक्रन्दयन्, तेन च (पृथिवीम्) भूमिम् (उत) अपि च (द्याम्) आकाशम् (नदयन्) शब्दापयन् (एषि) व्यवहरसि। (आजौ) युद्धे (इन्द्रस्य इव) सेनापतेः इव (वग्नुः) दुन्दुभ्यादिनादः। [वग्नुः वाङ्नाम। निघं० १।११।] (आशृण्वे) आश्रूयते। त्वमेव (इमाम्) एताम् (वाचम्) मनुष्यैरुदीर्यमाणां व्यक्तां वाणीम् (प्रचोदयन्) प्रेरयन् (आ अर्षसि) आगच्छसि ॥१॥ अत्रोत्प्रेक्षालङ्कारः ॥१॥
Essence
जलवाष्पाणामुपरिगमनं, मेघघटानां निर्माणं, विद्युच्चाकचक्यं, मेघगर्जनमित्यादि सर्वमपि कार्यं सूर्यपवनादिमाध्यमेन परमेश्वर एव करोति, नास्य सम्पादनेऽस्मादृशां सामर्थ्यमस्ति। स एव मनुष्यान् व्यक्तवाचः करोति ॥१॥
Subject
तत्रादौ परमात्मैव मेघान् गर्जयतीत्याह।
Footnote
२. ऋ० ९।९७।१३, ‘न॒दय॑न्नेति’ ‘प्र॑चे॒तय॑न्नर्षति॒’ इति भेदः।