Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 804

1875 Mantra
Devata- पवमानः सोमः Rishi- भृगुर्वारुणिर्जमदग्निर्भार्गवो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
तं꣡ त्वा꣢ ध꣣र्त्ता꣡र꣢मो꣣ण्यो꣢३: प꣡व꣢मान स्व꣣र्दृ꣡श꣢म् । हि꣣न्वे꣡ वाजे꣢꣯षु वा꣣जि꣡न꣢म् ॥८०४॥

तम् । त्वा꣣ । धर्ता꣡र꣢म् । ओ꣣ण्योः꣢ । प꣡व꣢꣯मानः । स्व꣣र्दृ꣡श꣢म् । स्वः꣣ । दृ꣡श꣢꣯म् । हि꣣न्वे꣢ । वा꣡जे꣢꣯षु । वा꣣जि꣡न꣢म् ॥८०४॥

Mantra without Swara
तं त्वा धर्त्तारमोण्यो३: पवमान स्वर्दृशम् । हिन्वे वाजेषु वाजिनम् ॥

तम् । त्वा । धर्तारम् । ओण्योः । पवमानः । स्वर्दृशम् । स्वः । दृशम् । हिन्वे । वाजेषु । वाजिनम् ॥८०४॥

Samveda - Mantra Number : 804
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पवमान) पवित्रकर्तः सर्वान्तर्यामिन् जगदीश्वर ! (ओण्योः) द्यावापृथिव्योः। [ओण्यौ इति द्यावापृथिव्योर्नाम। निघं० ३।३०।] (धर्तारम्) धारकम्, (स्वर्दृशम्) सूर्यस्य मोक्षानन्दस्य वा दर्शकम्, (वाजिनम्) बलवन्तम् (तं त्वा) तादृशं प्रसिद्धं त्वाम्, अहम् (वाजेषु) बलेषु निमित्तेषु (हिन्वे) प्रीणयामि। [हिवि प्रीणनार्थो भ्वादिः, आत्मनेपदं छान्दसम्] ॥२॥
Essence
यो जगदीश्वरो द्यावापृथिव्यादिकस्य धर्ताऽस्ति स विपत्सु बलप्रदानेन स्वोपासकानपि कुतो न धारयेत् ॥२॥
Subject
एवं ब्रह्मविद्यायामाचार्यस्य योगदानमुक्त्वा सम्प्रति परमात्मविषयमाह।
Footnote
२. ऋ० ९।६५।११।