Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 803

1875 Mantra
Devata- पवमानः सोमः Rishi- भृगुर्वारुणिर्जमदग्निर्भार्गवो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वृ꣡षा꣢ पवस्व꣣ धा꣡र꣢या म꣣रु꣡त्व꣢ते च मत्स꣣रः꣢ । वि꣢श्वा꣣ द꣡धा꣢न꣣ ओ꣡ज꣢सा ॥८०३॥

वृ꣡षा꣢꣯ । प꣣वस्व । धा꣡र꣢꣯या । म꣣रु꣡त्व꣢ते । च꣣ । मत्सरः꣢ । वि꣡श्वा꣢꣯ । द꣡धा꣢꣯नः । ओ꣡ज꣢꣯सा ॥८०३॥

Mantra without Swara
वृषा पवस्व धारया मरुत्वते च मत्सरः । विश्वा दधान ओजसा ॥

वृषा । पवस्व । धारया । मरुत्वते । च । मत्सरः । विश्वा । दधानः । ओजसा ॥८०३॥

Samveda - Mantra Number : 803
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम पावित्र्यसम्पादक आचार्य ! (वृषा) विद्यावर्षकः त्वम् (धारया) ज्ञानधारया (पवस्व) शिष्यान् पुनीहि। (मरुत्वते) प्राणायामाभ्यासिने शिष्याय (मत्सरः) ब्रह्मानन्दस्रावको भवेति शेषः। किञ्च, (ओजसा) विद्याबलेन सदाचारबलेन ब्रह्मचर्यबलेन च (विश्वा) विश्वान् शिष्यान्। [अत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इति शसः आकारादेशः।] (दधानः) धारयन् पुष्णंश्च भवेति शेषः ॥१॥
Essence
स एवाचार्यो यः शिष्यान् विद्याधाराभिः स्नपयन् तान् पितृवत् पालयन् पण्डितप्रकाण्डांस्तेजस्विनो ब्रह्मचारिणो ब्रह्मानन्दमग्नान् सदाचारिणश्च कुर्यात् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४६९ क्रमाङ्के परमात्मविषये व्याख्याता। अत्राचार्यविषयः प्रदर्श्यते।
Footnote
१. ऋ० ९।६५।१०, साम० ४६९।