Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 802

1875 Mantra
Devata- इन्द्राग्नी Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ता꣡ वां꣢ गी꣣र्भि꣡र्वि꣢प꣣न्यु꣢वः꣣ प्र꣡य꣢स्वन्तो हवामहे । मे꣣ध꣡सा꣢ता सनि꣣ष्य꣡वः꣢ ॥८०२॥

ता꣢ । वा꣣म् । गीर्भिः꣢ । वि꣣पन्यु꣡वः꣢ । प्र꣡य꣢꣯स्वन्तः । ह꣣वामहे । मेध꣡सा꣢ता । मे꣣ध꣢ । सा꣣ता । सनिष्य꣡वः꣢ ॥८०२॥

Mantra without Swara
ता वां गीर्भिर्विपन्युवः प्रयस्वन्तो हवामहे । मेधसाता सनिष्यवः ॥

ता । वाम् । गीर्भिः । विपन्युवः । प्रयस्वन्तः । हवामहे । मेधसाता । मेध । साता । सनिष्यवः ॥८०२॥

Samveda - Mantra Number : 802
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ता) तौ (वाम्) इन्द्राग्नी जीवात्मपरमात्मानौ युवाम् (विपन्युवः) विशिष्टस्तुतिमन्तः। [विपूर्वात् पण व्यवहारे स्तुतौ च इत्यतो बाहुलकादौणादिको युच् प्रत्ययः। जसि छान्दसः उवङादेशः।] (प्रयस्वन्तः२) प्रयासवन्तः पुरुषार्थिनः। [प्रयः प्रयासः तद्वन्तः, प्रपूर्वाद् यसु प्रयत्ने इत्यतः क्विप्।] (सनिष्यवः) संभजनकामाः श्रद्धालवो वयम्। [षण सम्भक्तौ, सनिशब्दात् आत्मन इच्छायामर्थे क्यचि लालसायां सुक्, तत उः।] (मेधसाता) मेधसातौ संगमप्राप्तिनिमित्ताय। [मेधः संगमः, मेधृ हिंसायां संगमे च, तस्य सातिः प्राप्तिः तन्निमित्ताय, निमित्तसप्तम्येषा। ‘सुपां सुलुक्०। अ० ७।१।३९’ इति विभक्तेर्डादेशः।] (गीर्भिः) वेदवाग्भिः (हवामहे) आह्वयामः ॥३॥
Essence
परमात्मानं जीवात्मानं चानुकूलयितुं वाचा स्तुतिः, कायेन प्रयासः, मनसा श्रद्धा च त्रयमप्यपेक्ष्यते ॥३॥ अस्मिन् खण्डे विविधानामग्नीनाम् आचार्यनृपत्योः प्राणोदानयोः ब्रह्मक्षत्रयोः जीवात्मपरमात्मनोश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिर्वेद्या ॥
Subject
अथ जीवात्मपरमात्मानौ आह्वयति।
Footnote
१. ऋ० ७।९४।६। २. प्रयस्वन्तः हविर्लक्षणेन अन्नेनोपेताः—इति सा०। प्रकर्षेण यजमानगृहान् प्रति गच्छन्तः—इति वि०।