Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 80

1875 Mantra
Devata- अग्निः Rishi- पायुर्भारद्वाजः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
स꣣ना꣡द꣢ग्ने मृणसि यातु꣣धा꣢ना꣣न्न꣢ त्वा꣣ र꣡क्षा꣢ꣳसि꣣ पृ꣡त꣢नासु जिग्युः । अ꣡नु꣢ दह स꣣ह꣡मू꣢रान्क꣣या꣢दो꣣ मा꣡ ते꣢ हे꣣त्या꣡ मु꣢क्षत꣣ दै꣡व्या꣢याः ॥८०॥

स꣣ना꣢त् । अ꣣ग्ने । मृणसि । यातुधा꣡ना꣢न् । या꣣तु । धा꣡ना꣢꣯न् । न । त्वा꣣ । र꣡क्षाँ꣢꣯सि । पृ꣡त꣢꣯नासु । जि꣣ग्युः । अ꣡नु꣢꣯ । द꣣ह । सह꣡मू꣢रान् । स꣣ह꣢ । मू꣣रान् । क꣣या꣡दः꣢ । क꣣य । अ꣡दः꣢꣯ । मा । ते꣣ । हेत्याः꣢ । मु꣣क्षत । दै꣡व्या꣢꣯याः ॥८०॥

Mantra without Swara
सनादग्ने मृणसि यातुधानान्न त्वा रक्षाꣳसि पृतनासु जिग्युः । अनु दह सहमूरान्कयादो मा ते हेत्या मुक्षत दैव्यायाः ॥

सनात् । अग्ने । मृणसि । यातुधानान् । यातु । धानान् । न । त्वा । रक्षाँसि । पृतनासु । जिग्युः । अनु । दह । सहमूरान् । सह । मूरान् । कयादः । कय । अदः । मा । ते । हेत्याः । मुक्षत । दैव्यायाः ॥८०॥

Samveda - Mantra Number : 80
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रणीः परमात्मन् शत्रूच्छेदक राजन् वा ! त्वम् (सनात्) चिरकालात्। सनादिति चिरम् इत्यर्थे व्याख्यातो निरुक्ते १२।३४। (यातुधानान्२) यातनाधायकान् घातपातहिंसोपद्रवादीन् दोषान् दुष्टजनान् वा (मृणसि) मर्दयसि, विनाशयसि। मृण हिंसायाम्, तुदादिः। (रक्षांसि) कामक्रोधलोभादयो वञ्चकलुण्ठकतस्करादयो वा राक्षसाः (त्वा) त्वाम् (पृतनासु) आभ्यन्तरेषु बाह्येषु च देवासुरसंग्रामेषु। पृतनेति संग्रामनाम। निघं० २।१७। (न जिग्युः) न जेतुं शक्नुवन्ति। जि जये, लडर्थे लिट्। ‘सन् लिटोर्जेः।’ अ० ७।३।५७ इति कुत्वम्। त्वम् (कयादः३) कं सुखं यातयन्ति विनाशयन्तीति तान् दुर्विचारान् दुष्टजनान् वा। कम् इति सुखनाम। निरु–० २।१४। यातयतिः हिंसाकर्मा। निघं० २।१९। (सहमूरान्४) समूलान्। रलयोरभेदः। (अनुदह) अनुक्रमेण भस्मसात् कुरु। ते दुष्टभावा दुष्टजनाश्च (ते) तव (दैव्यायाः) देवेभ्यो विद्वद्भ्यो हिता दैव्या तस्याः। देवशब्दाद् हितार्थे देवाद् ययञौ अ० ४।१।८५ वा० इति यञ् प्रत्ययः। (हेत्याः५) दण्डशक्तेः शस्त्रास्त्रसमूहाच्च। हेतिः वज्रनाम। निघं० २।२०। (मा मुक्षत) मुक्ता मा भूवन्। मुचोऽकर्मकस्य लुङि, अडभावे, प्रथमबहुवचने रूपम् ॥८॥ अत्र अर्थश्लेषालङ्कारः, वीरो रसः ॥८॥
Essence
हे धर्मपालक विधर्मविध्वंसक सद्गुणप्रसारक जगदीश्वर राजन् वा ! तव प्रशंसका वयं यदा यदा मानसे बाह्ये वा देवासुरसंग्रामे कामक्रोधलोभमोहादिभिर्वञ्चक-लुण्ठक-हिंसक-तस्कर-मद्यप-व्यभिचारक-भ्रष्टाचारकप्रभृतिभिर्दुष्टजनैश्च पीड्यामहे तदा तदाऽस्माकं सहायको भूत्वा तान् समूलघातं हत्वाऽस्मान् रक्ष। दुर्जनानां च यदि हृदयपरिवर्तनं संभवेत् तदा तेषां राक्षसत्वं विनाश्य तान् शुद्धान्तःकरणान् कुरु, येन जगति सज्जनानां वृद्ध्या सर्वत्र सुखसौहार्दधारा प्रवहेत् ॥८॥ अत्र परमात्माग्नेर्जागरणवर्णनाद्, अग्नि-पूषन्-जातवेदोनामभिः परमात्मगुणवर्णनात्, तत्क्रियमाणराक्षसविनाशवर्णनाद्, मनुष्याणां तत्पूजार्थं प्रेरणाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्ति। इति प्रथमे प्रपाठके द्वितीयार्धे तृतीया दशतिः ॥ इति प्रथमेऽध्यायेऽष्टमः खण्डः ॥
Subject
अथ परमात्मा राजा च राक्षससंहाराय प्रार्थ्यते।
Footnote
१. ऋ० १०।८७।१९, देवता अग्नी रक्षोहा, कयादो इत्यत्र ‘क्रव्यादो’—इति पाठः। अथ० ५।२९।११, ८।३।१८, उभयत्र सहमूराननु दह क्रव्यादो इति तृतीयः पादः। २. याति हिंसाकर्मा। यातुर्हिंसा। यातोर्निधानभूता इति यातुं विदधति इति वा यातुधानाः—इति भ–०। ३. कयादः। क्रव्यशब्दस्य रेफवकारयोश्छन्दसि वर्णलोपेन कय इत्येतद् भवति। कयं ये अदन्ति ते कयादः क्रव्यादाः। मांसस्य भक्षयितॄनित्यर्थः—इति वि०। तदेव भरतसायणोरभिमतम्। ४. सहमूरान् सहभूतान् मूढान्, मूर्खानित्यर्थः—इति वि०। मूढेन सहितान्—इति भ–०। ५. हन्तेः हिनोतेर्वा हेतिः—इति भ०।