Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 8

1875 Mantra
Devata- अग्निः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
आ꣡ ते꣢ व꣣त्सो꣡ मनो꣢꣯ यमत्पर꣣मा꣡च्चि꣢त्स꣣ध꣡स्था꣢त् । अ꣢ग्ने꣣ त्वां꣢ का꣢मये गि꣣रा꣢ ॥८॥

आ꣢ । ते꣣ । वत्सः꣢ । म꣡नः꣢꣯ । य꣣मत् । परमा꣢त् । चि꣣त् । सध꣡स्था꣢त् । स꣣ध꣢ । स्था꣣त् । अ꣡ग्ने꣢꣯ । त्वाम् । का꣣मये । गिरा꣢ ॥८॥

Mantra without Swara
आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् । अग्ने त्वां कामये गिरा ॥

आ । ते । वत्सः । मनः । यमत् । परमात् । चित् । सधस्थात् । सध । स्थात् । अग्ने । त्वाम् । कामये । गिरा ॥८॥

Samveda - Mantra Number : 8
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) जगत्पितः परमात्मन् ! (ते) तव (वत्सः२) प्रियः पुत्रोऽयम् (परमात् चित्) सुदूरादपि सधस्थात् प्रदेशात्। सह तिष्ठन्ति जनाः पदार्था वा यत्र स सधस्थः सहस्थानं तस्मात्। सधमादस्थयोश्छन्दसि अ० ६।३।९६ इति सहस्य सधादेशः। (मनः) मानसम् (आ यमत्) आयच्छति, आसमन्तादानीय त्वयि केन्द्रितं करोति। अहं तव वत्सस्त्वयि मनः केन्द्रयामीति भावः। यमद् इति यमु उपरमे धातोर्लेटि रूपम्। बहुलं छन्दसि अ० २।४।७३ इति शपो लुकि धातोर्यच्छादेशो न। ततश्च त्वयि केन्द्रितमानसोऽहम् (गिरा) स्तुतिवाचा (त्वाम्) परमात्मानम् (कामये) अभिलषामि, त्वत्प्रेमबद्धो भवामीति भावः ॥८॥
Essence
यदा मानवः सांसारिकविषयाणां निःसारतां पश्यति तदा दूरात् सुदूरेषु भूप्रदेशेषु लोक-लोकान्तरेषु च भ्राम्यत् स्वकीयं मनः सर्वेभ्योऽपि प्रदेशेभ्यः प्रतिनिवर्त्य परमात्मन्येव संलगयति, गिरा च परमात्मन एव गुणधर्मान् मुहुर्मुहुः स्तौति, तत्प्रेमपरिप्लुतहृदयश्च सकलाया धरित्र्या राज्यमपि तत्समक्षं तुच्छं गणयति ॥८॥
Subject
अहं परमात्मनि त्वयि प्रेम बध्नामीत्याह।
Footnote
१. ऋ० ८।११।७, कामये इत्यस्य स्थाने कामया इति पाठः। य० १२।११५। साम० ११६६। यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं मनुष्यैः सदैव मनः स्ववशं विधेयं वाणी च इति विषये व्याख्यातवान्। २. ऋचोऽस्या द्रष्टा ऋषिरपि वत्स एव। तत्तु तस्य न वास्तविकं नाम, किन्तु मन्त्रवर्णनसौन्दर्याकृष्टः स स्वकीयम् उपनाम वत्स इति चक्रे। तेनैव नाम्ना स प्रसिद्धिं गत इति बोध्यम्।