Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 798

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣢न्द्र꣣ वा꣡जे꣢षु नोऽव स꣣ह꣡स्र꣢प्रधनेषु च । उ꣣ग्र꣢ उ꣣ग्रा꣡भि꣢रू꣣ति꣡भिः꣢ ॥७९८॥

इ꣡न्द्र꣢꣯ । वा꣡जे꣢꣯षु । नः꣣ । अव । सह꣡स्र꣢प्रधनेषु । स꣣ह꣡स्र꣢ । प्र꣣धनेषु । च । उ꣢ग्रः । उ꣣ग्रा꣡भिः꣢ । ऊ꣣ति꣡भिः꣢ ॥७९८॥

Mantra without Swara
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । उग्र उग्राभिरूतिभिः ॥

इन्द्र । वाजेषु । नः । अव । सहस्रप्रधनेषु । सहस्र । प्रधनेषु । च । उग्रः । उग्राभिः । ऊतिभिः ॥७९८॥

Samveda - Mantra Number : 798
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) शरीराधिष्ठातः जीवात्मन् ! (उग्रः) वीरः त्वम् (वाजेषु) संग्रामेषु। [वाज इति संग्रामनाम निघं० २।१७।] (सहस्रप्रधनेषु च) सहस्राण्यसंख्यातानि प्रकृष्टानि धनानि प्राप्नुवन्ति येषु तेषु चक्रवर्तिराज्यसाधकेषु महायुद्धेषु च३ (उग्राभिः) अत्यन्तोत्कृष्टाभिः (ऊतिभिः) रक्षाभिः (नः) अस्मान् (अव) रक्ष ॥३॥४
Essence
मनुष्यस्यात्मा चेद् बलवानस्ति तदा तं न कोऽपि पराजेतुं समर्थः ॥३॥
Subject
तृतीया ऋक् पूर्वार्चिके ५९८ क्रमाङ्के परमेश्वरपक्षे नृपतिपक्षे च व्याख्याता। अत्र जीवात्मविषय उच्यते।
Footnote
२. ऋ० १।७।४, साम० ५९८, अथ० २०।७०।१०। ३. अयमर्थो दयानन्दस्वामिन ऋग्भाष्यादुद्धृतः। ४. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रेऽस्मिन्निन्द्रशब्देनेश्वरो गृहीतः।