Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 797

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣢न्द्र꣣ इ꣢꣯द्धर्योः꣣ स꣢चा꣣ स꣡म्मि꣢श्ल꣣ आ꣡ व꣢चो꣣यु꣡जा꣢ । इ꣡न्द्रो꣢ व꣣ज्री꣡ हि꣢र꣣ण्य꣡यः꣢ ॥७९७॥

इ꣡न्द्रः꣢꣯ । इत् । ह꣡र्योः꣢꣯ । स꣡चा꣢꣯ । सं꣡मि꣢꣯श्लः । सम् । मि꣣श्लः । आ꣢ । व꣣चोयु꣡जा꣢ । व꣣चः । यु꣡जा꣢꣯ । इ꣡न्द्रः꣢꣯ । व꣡ज्री꣢ । हि꣣रण्य꣡यः꣢ ॥७९७॥

Mantra without Swara
इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा । इन्द्रो वज्री हिरण्ययः ॥

इन्द्रः । इत् । हर्योः । सचा । संमिश्लः । सम् । मिश्लः । आ । वचोयुजा । वचः । युजा । इन्द्रः । वज्री । हिरण्ययः ॥७९७॥

Samveda - Mantra Number : 797
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रः इत्) देहाधिष्ठाता जीवात्मैव (वचोयुजा) वचोयुजोः वचनसमकालमेव युज्यमानयोः (हर्योः)ज्ञानेन्द्रियकर्मेन्द्रियरूपयोः अश्वयोः (सचा) सह, युगपत् (आ सम्मिश्लः) आ सम्मिश्रः, ज्ञानकर्मसु नियोक्ता विद्यते। (इन्द्रः) स जीवात्मा (वज्री) वाग्वज्रधरः। [वाग्घि वज्रः। ऐ० ब्रा० ४।१।] (हिरण्ययः) प्राणमयो ज्योतिर्मयो यशोमयो वा विद्यते। [प्राणो वै हिरण्यम्। श० ७।५।२।८। ज्योतिर्वै हिरण्यम्। तां० ब्रा० ६।६।१०, यशो वै हिरण्यम्। ऐ० ब्रा० ७।१८] ॥२॥१
Essence
यस्य जीवात्मनः प्रेरणया ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च स्वस्वव्यापारेषु नियुज्यन्ते, यो जीवात्मा वाग्वज्रेण कुतार्किकाणां कुतर्कान् खण्डयति, यः प्राणाधिष्ठाता तेजस्वी यशस्वी चास्ति तमुद्बोध्य सर्वे समीहितानि साध्नुवन्तु ॥२॥
Subject
द्वितीया ऋक् पूर्वार्चिके ५९७ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र जीवात्मविषय उच्यते।
Footnote
३. ऋ० १।७।२, साम० ५९७, अथ० २०।३८।५, ४७।५, ७०।८। १. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं वायुसूर्यपक्षे व्याचष्टे।