Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 796

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣢न्द्र꣣मि꣢द्गा꣣थि꣡नो꣢ बृ꣣ह꣡दिन्द्र꣢꣯म꣣र्के꣡भि꣢र꣣र्कि꣡णः꣢ । इ꣢न्द्रं꣣ वा꣡णी꣢रनूषत ॥७९६॥

इ꣡न्द्र꣢꣯म् । इत् । गा꣣थि꣡नः꣢ । बृ꣣ह꣢त् । इ꣡न्द्र꣢꣯म् । अ꣣र्के꣡भिः꣢ । अ꣣र्कि꣡णः꣢ । इ꣡न्द्र꣢꣯म् । वा꣡णीः꣢꣯ । अ꣣नूषत ॥७९६॥

Mantra without Swara
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । इन्द्रं वाणीरनूषत ॥

इन्द्रम् । इत् । गाथिनः । बृहत् । इन्द्रम् । अर्केभिः । अर्किणः । इन्द्रम् । वाणीः । अनूषत ॥७९६॥

Samveda - Mantra Number : 796
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रम्) देहाधिष्ठातारं कामक्रोधादिशत्रुविद्रावकं वीरं जीवात्मानम् (इत्) किल (गाथिनः) गाथो गानं येषामस्तीति ते गाथिनः गायकाः (बृहत्) महत् (अनूषत) स्तुवन्ति। (इन्द्रम्) जीवात्मानम् (अर्किणः) मन्त्रपाठिनः (अर्कैः) वेदमन्त्रैः (अनूषत) स्तुवन्ति।(इन्द्रम्) तमेव जीवात्मानम् (वाणीः) इतराः वाचः (अनूषत) स्तुवन्ति ॥१॥२
Essence
जीवात्मैव देहराज्यस्य सम्राड् विद्यते, यो मनोबुद्धिप्राणेन्द्रियाणि यथास्थानं सन्निधाय देहराज्यं सञ्चालयति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १९८ क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र जीवात्मविषय उच्यते।
Footnote
१. ऋ० १।७।१, साम० १९८। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रेऽस्मिन् प्रथमेन इन्द्रशब्देन परमेश्वरं, द्वितीयेन सूर्यम्, तृतीयेन च महाबलवन्तं वायुं गृह्णाति।