Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 795

1875 Mantra
Devata- मित्रावरुणौ Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
व꣡रु꣢णः प्रावि꣣ता꣡ भु꣢वन्मि꣣त्रो꣡ विश्वा꣢꣯भिरू꣣ति꣡भिः꣢ । क꣡र꣢तां नः सु꣣रा꣡ध꣢सः ॥७९५॥

व꣡रु꣢꣯णः । प्रा꣣विता꣢ । प्र꣣ । अविता꣢ । भु꣣वत् । मित्रः꣢ । मि꣢ । त्रः꣢ । वि꣡श्वा꣢꣯भिः । ऊ꣣ति꣡भिः꣢ । क꣡र꣢꣯ताम् । नः꣣ । सु꣡राध꣢सः । सु꣣ । रा꣡ध꣢꣯सः ॥७९५॥

Mantra without Swara
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः । करतां नः सुराधसः ॥

वरुणः । प्राविता । प्र । अविता । भुवत् । मित्रः । मि । त्रः । विश्वाभिः । ऊतिभिः । करताम् । नः । सुराधसः । सु । राधसः ॥७९५॥

Samveda - Mantra Number : 795
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वरुणः) शरीरे उदानः, राष्ट्रे क्षत्रियश्च (मित्रः) शरीरे प्राणः, राष्ट्रे ब्राह्मणश्च (विश्वाभिः) सर्वाभिः (ऊतिभिः) रक्षाभिः (प्राविता) अस्माकं प्रकर्षेण रक्षिता (भुवत्) भवतु। अपि च (नः) अस्मान् (सुराधसः२) सुधनान् सुसिद्धिमतश्च। [राधस् इति धननाम। निघं० २।१०। राध संसिद्धौ।] (करताम्) कुरुताम्। [डुकृञ् करणे, व्यत्ययेन शप्] ॥३॥३
Essence
प्राणोदानाभ्यां देहे स्वास्थ्यरूपं योगसिद्धिरूपं च धनं, ब्राह्मणक्षत्रियाभ्यां च राष्ट्रे विद्याचक्रवर्तिराज्यादिरूपं धनं सर्वे प्राप्नुवन्तु ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० १।२३।६। २. सुराधसः शोभनानि विद्याचक्रवर्तिराज्यसंबन्धीनि राधांसि धनानि येषां तान्—इति ऋ० १।२३।६ भाष्ये द०। ३. एतमपि मन्त्रमृग्भाष्ये दयानन्दर्षिः सूर्यवायुपक्षे व्याचष्टे।