Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 793

1875 Mantra
Devata- मित्रावरुणौ Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
मि꣣त्रं꣢ व꣣य꣡ꣳ ह꣢वामहे꣣ व꣡रु꣢ण꣣ꣳ सो꣡म꣢पीतये । या꣢ जा꣣ता꣢ पू꣣त꣡द꣢क्षसा ॥७९३॥

मि꣣त्र꣢म् । मि꣣ । त्र꣢म् । व꣣य꣢म् । ह꣣वामहे । व꣡रु꣢꣯णम् । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये । या꣢ । जा꣡ता꣢ । पू꣣त꣡द꣢क्षसा । पू꣣त꣢ । द꣣क्षसा ॥७९३॥

Mantra without Swara
मित्रं वयꣳ हवामहे वरुणꣳ सोमपीतये । या जाता पूतदक्षसा ॥

मित्रम् । मि । त्रम् । वयम् । हवामहे । वरुणम् । सोमपीतये । सोम । पीतये । या । जाता । पूतदक्षसा । पूत । दक्षसा ॥७९३॥

Samveda - Mantra Number : 793
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वयम्) जनाः (सोमपीतये) यशोरक्षणाय। [यशो वै सोमः श० ४।२।४।९।] (मित्रम्) बहिरभ्यन्तरस्थं जीवनहेतुं प्राणं, ब्रह्मबलं वा, (वरुणम्) ऊर्ध्वगमनबलहेतुम् उदानं, क्षत्रबलं वा। [प्राणोदानौ वै मित्रावरुणौ श० १।८।३।१२, ब्रह्मैव मित्रः। श० ४।१।४।१, क्षत्रं वै वरुणः। श० २।५।२।६।] (हवामहे) आह्वयामः, गृह्णीमः, (या) यौ (पूतदक्षसा) पूतदक्षसौ पवित्रबलौ, बलस्य पवित्रकर्तारौ वा (जाता) जातौ स्तः। [सर्वत्र, ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेराकारादेशः।] ॥१॥१
Essence
शरीरे प्राणनक्रियाहतुं प्राणम् ऊर्ध्वगमनहेतुमुदानं च संवर्द्ध्य, राष्ट्रे च ब्रह्मबलं क्षत्रबलं च संवर्द्ध्य शरीरस्य राष्ट्रस्य च स्वास्थ्यं सर्वे जना उन्नयन्तु ॥१॥
Subject
अथ प्राणोदानब्रह्मक्षत्रविषयमाह।
Footnote
३. ऋ० १।२३।४ ‘ज॒ज्ञा॒ना पू॒तद॑क्षसा’ इति पाठः। १. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं प्राणोदानपक्षे व्याचष्टे।