Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 792

1875 Mantra
Devata- अग्निः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡ग्ने꣢ दे꣣वा꣢ꣳ इ꣣हा꣡ व꣢ह जज्ञा꣣नो꣢ वृ꣣क्त꣡ब꣢र्हिषे । अ꣢सि꣣ हो꣡ता꣢ न꣣ ई꣡ड्यः꣢ ॥७९२॥

अ꣡ग्ने꣢꣯ । दे꣣वा꣢न् । इ꣣ह꣢ । आ । व꣣ह । जज्ञानः꣢ । वृ꣣क्त꣡ब꣢र्हिषे । वृ꣣क्त꣢ । ब꣡र्हिषे । अ꣡सि꣢꣯ । हो꣡ता꣢꣯ । नः꣣ । ई꣡ड्यः꣢꣯ ॥७९२॥

Mantra without Swara
अग्ने देवाꣳ इहा वह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः ॥

अग्ने । देवान् । इह । आ । वह । जज्ञानः । वृक्तबर्हिषे । वृक्त । बर्हिषे । असि । होता । नः । ईड्यः ॥७९२॥

Samveda - Mantra Number : 792
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रणीः तेजस्विन् परमात्मन् आचार्य नृपते वा ! (वृक्तबर्हिषे) उपासनायज्ञार्थं विद्यायज्ञार्थं राष्ट्रसेवायज्ञार्थं वा आस्तीर्णासनाय जनाय। [वृक्तं त्यक्तम् आस्तीर्णं बर्हिः दर्भासनं येन तस्मै। वृक्तबर्हिषः इति ऋत्विड्नामसु पठितम्। निघं० ३।१८।] (जज्ञानः) प्रादुर्भवन्, स्वदर्शनं प्रयच्छन्। [जनी प्रादुर्भावे दिवादिः, लिटः कानच्।] त्वम् (इह) उपासनायज्ञे विद्यायज्ञे राष्ट्रयज्ञे वा (देवान्) दिव्यगुणान् विदुषः राष्ट्रसेवकान् वा (आ वह) जनय। त्वम् (होता) सुखसम्पद्विद्यासद्वृत्तादीनां दाता, (नः) अस्माकम् (ईड्यः) स्तुत्यश्च (असि) विद्यसे ॥३॥२
Essence
यथा जगदीश्वर उपासनायज्ञे स्तोतॄणां हृदये दिव्यगुणान् जनयति तथैवाचार्यो विद्यायज्ञे विद्वज्जनान् राजा च राष्ट्रयज्ञे राष्ट्रसेवकान् जनयेत् ॥३॥
Subject
अथ परमात्मानमाचार्यं नृपतिं च सम्बोधयति।
Footnote
१. ऋ० १।१२।३। २. दयानन्दर्षिर्ऋग्भाष्ये मन्त्रमिममीश्वरविषये भौतिकाग्निविषये च व्याख्यातवान्।