Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 791

1875 Mantra
Devata- अग्निः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣ग्नि꣡म꣢ग्नि꣣ꣳ ह꣡वी꣢मभिः꣣ स꣡दा꣢ हवन्त वि꣣श्प꣡ति꣢म् । ह꣣व्यवा꣡हं꣢ पुरुप्रि꣣य꣢म् ॥७९१॥

अ꣣ग्नि꣡म꣢ग्निम् । अ꣣ग्नि꣢म् । अ꣣ग्निम् । ह꣡वी꣢꣯मभिः । स꣡दा꣢꣯ । ह꣣वन्त । विश्प꣡ति꣢म् । ह꣣व्यवा꣡ह꣢म् । ह꣣व्य । वा꣡ह꣢꣯म् । पु꣣रुप्रिय꣢म् । पु꣣रु । प्रिय꣢म् ॥७९१॥

Mantra without Swara
अग्निमग्निꣳ हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहं पुरुप्रियम् ॥

अग्निमग्निम् । अग्निम् । अग्निम् । हवीमभिः । सदा । हवन्त । विश्पतिम् । हव्यवाहम् । हव्य । वाहम् । पुरुप्रियम् । पुरु । प्रियम् ॥७९१॥

Samveda - Mantra Number : 791
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्निम्-अग्निम्) प्रत्येकम् अग्निम्—परमात्माग्निम्,आत्माग्निं, जाठराग्निं, यज्ञाग्निं, शिल्पाग्निम्, आचार्याग्निं,नृपाग्निम् (हवीमभिः) हविर्भिः सह। [हु दानादनयोः इत्यस्मात् ‘अन्येभ्योऽपि दृश्यते। अ० ३।२।७५’ इति मनिन् छान्दसः ईडागमश्च।] जनाः (सदा) सर्वदा (हवन्त) आह्वयन्तु, स्वीकुर्वन्तु। [ह्वेञ् धातोर्लोडर्थे लङि ‘बहुलं छन्दसि’ अ० ६।१।३४ इति सम्प्रसारणम्। ‘बहुलं छन्दस्यमाङ्योगेऽपि’। अ० ६।४।७५ इत्यडागमाभावः।] कीदृशम् अग्निम् ? (विश्पतिम्) विशां प्रजानां पतिं पालकम्, (हव्यवाहम्१) हव्यं दातव्यं वस्तुजातं सद्गुणविद्यादिकं वा वहति प्रापयतीति तादृशम्, यद्वा हव्यानि आदातुं योग्यानि विमानादीनि यानानि इतस्ततो वहति प्रापयतीति तादृशम्, अपि च (पुरुप्रियम्) बहु प्रियं, बहूनां प्रियं वा ॥२॥२
Essence
आराधितः परमात्माग्निरुपासकस्यात्मसमर्पणं स्वीकृत्य तस्मै भद्रान् गुणकर्मस्वभावान् प्रयच्छति। उद्बोधित आत्माग्निर्मनश्चक्षु- रादिभिर्ज्ञानसाधनैर्ज्ञानं स्वीकृत्य मनुष्याय बलं प्रयच्छति। जाठराग्निर्भोज्यपेयादिकं हविः स्वीकृत्य तद् रसरक्तादिरूपेण परिणमयति। यजमानेन हुतो यज्ञाग्निर्हवींषि स्वीकृत्य वायुमाध्यमेनारोग्यकरं सुगन्धमितस्ततो वहति। यानयन्त्रादिषु प्रयुक्तो विद्युदग्निर्विमानादीनि यानानि स्थानान्तरं प्रापयति, यन्त्रकलाश्च संचाल्य विविधपदार्थानां निर्माणे साधनतां गच्छति। आचार्याग्निः समित्पाणीनां शिष्याणां समर्पणं स्वीकृत्य तान् विद्यां सदाचारं च ग्राहयति। नृपाग्निः प्रजाभ्यो राजदेयकरं स्वीकृत्य तं सार्वजनिकनिर्माणकार्येषु व्ययित्वा प्रजाभ्यः सुखं ददाति। अत एतेऽग्नयः यथायोग्यं व्यवहारे प्रयोक्तव्याः ॥२॥
Subject
अथ विविधानग्नीनाह्वयति।
Footnote
२. ऋ० १।१२।२। १. हव्यवाहम् होतुं दातुम् अत्तुम् आदातुं च योग्यानि ददाति, वा यानादीनि वस्तूनीतस्ततो वहति प्रापयति तम्—इति ऋ० १।१२।२ भाष्ये द०। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमेश्वरपक्षे भौतिकाग्निपक्षे च व्याचष्टे। एष च तत्र तत्कृतो भावार्थः—‘हे मनुष्या युष्माभिर्विद्युदाख्यस्य प्रसिद्धस्याग्नेश्च सकाशात् कलाकौशलादिसिद्धिं कृत्वाऽभीष्टानि सुखानि सदैव भोक्तव्यानि भोजयितव्यानि चेति ॥’