Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 790

1875 Mantra
Devata- अग्निः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣ग्निं꣢ दू꣣तं꣡ वृ꣢णीमहे꣣ हो꣡ता꣢रं वि꣣श्व꣡वे꣢दसम् । अ꣣स्य꣢ य꣣ज्ञ꣡स्य꣢ सु꣣क्र꣡तु꣢म् ॥७९०॥

अ꣣ग्नि꣢म् । दू꣣त꣢म् । वृ꣣णीमहे । हो꣡ता꣢꣯रम् । वि꣣श्व꣡वे꣢दसम् । वि꣣श्व꣢ । वे꣣दसम् । अस्य꣢ । य꣣ज्ञ꣡स्य꣢ । सु꣣क्र꣡तु꣢म् । सु꣣ । क्र꣡तु꣢म् ॥७९०॥

Mantra without Swara
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ॥

अग्निम् । दूतम् । वृणीमहे । होतारम् । विश्ववेदसम् । विश्व । वेदसम् । अस्य । यज्ञस्य । सुक्रतुम् । सु । क्रतुम् ॥७९०॥

Samveda - Mantra Number : 790
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—आचार्यपक्षे। वयम् (होतारम्) विद्यायाः आचारस्य च दातारम्, (विश्ववेदसम्) सर्वस्य वाङ्मयस्य वेत्तारम्, (अस्य) अनुष्ठीयमानस्य एतस्य (यज्ञस्य) विद्यायज्ञस्य (सुक्रतुम्) सुकर्तारम्, (दूतम्) शिष्यजनस्य दोषादीनाम् उपतापकम्। [टुदु उपतापे, दुनोति उपतपति दुर्गुणदुर्व्यसनप्रमादालस्यदुःखादीनि यः तम्।] (अग्निम्) तेजस्विनं कर्मनिष्ठम् अग्रनेतारम् आचार्यम् (वृणीमहे) गुरुत्वेन स्वीकुर्महे ॥ द्वितीयः—नृपतिपक्षे। वयम् (होतारम्) सुराज्यव्यवस्थया प्रजाभ्यः सुखदातारं राजदेयकरस्य च आदातारम्। [हु दानादनयोः, आदाने चेत्येके।] (विश्ववेदसम्) विश्वस्य सकलस्य राजनीतिविज्ञानस्य वेत्तारम्, (अस्य) अनुष्ठीयमानस्य एतस्य (यज्ञस्य) राष्ट्रयज्ञस्य (सुक्रतुम्) सुकर्तारम् (दूतम्) शत्रूणां भ्रष्टाचारिणां च सन्तापकम् (अग्निम्) अग्रणीं कर्मठं सुयोग्यं जनम् (वृणीमहे) प्रजामध्याद् नृपतित्वेन स्वीकुर्महे ॥ तृतीयः—भौतिकाग्निपक्षे। वयं शिल्पविद्यावेत्तारो विद्वांसः (होतारम्) यानेषु यन्त्रेषु च वेगादिगुणदातारम्, (विश्ववेदसम्) विश्वानि सुखसाधनानि विद्यन्ते प्राप्यन्ते यस्मात् तम्, (अस्य) अनुष्ठीयमानस्य एतस्य (यज्ञस्य) शिल्पयज्ञस्य (सुक्रतुम्) सुसम्पादनसाधनभूतम्, (दूतम्) यो दावयति गमयति यन्त्रकलाः तम् (अग्निम्) विद्युतम् (वृणीमहे) शिल्पक्रियासु प्रयुञ्ज्महे ॥१॥१ अत्र श्लेषालङ्कारः ॥१॥
Essence
मनुष्यैर्जगदीश्वरोपासनया सत्प्रेरणां प्राप्य सुयोग्यं सुशिक्षकमाचार्यं वृत्वा सर्वा विद्या अधीत्य सदाचारमङ्गीकृत्य विद्युद्विद्यया शिल्पविद्योन्नत्या भूजलान्तरिक्षयानानि विविधानि यन्त्राणि च निर्माय राष्ट्रोन्नतिः संसाधनीया ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३ क्रमाङ्के परमात्मपक्षे व्याख्यातपूर्वा। अत्राचार्यनृपतिभौतिकाग्नीनां विषये व्याख्यायते।
Footnote
१. ऋ० १।१२।१, साम० ३, अथ० २०।१०१।१। १. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं भौतिकाग्निप्रयोगेण शिल्पविद्योन्नतिविषये व्याख्यातवान्।