Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 789

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡ नः꣢ पुना꣣न꣡ आ भ꣢꣯र र꣣यिं꣢ वी꣣र꣡व꣢ती꣣मि꣡ष꣢म् । ई꣡शा꣢नः सोम वि꣣श्व꣡तः꣢ ॥७८९॥

सः꣢ । नः꣣ । पुनानः꣢ । आ । भ꣣र । रयि꣢म् । वी꣣र꣡व꣢तीम् । इ꣢ष꣢꣯म् । ई꣡शा꣢꣯नः । सो꣣म । विश्व꣡तः꣢ ॥७८९॥

Mantra without Swara
स नः पुनान आ भर रयिं वीरवतीमिषम् । ईशानः सोम विश्वतः ॥

सः । नः । पुनानः । आ । भर । रयिम् । वीरवतीम् । इषम् । ईशानः । सोम । विश्वतः ॥७८९॥

Samveda - Mantra Number : 789
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) परमैश्वर्यवन् जगदीश्वर आचार्य वा ! (ईशानः) अधीश्वरः (सः) प्रसिद्धः त्वम् (नः) अस्मान् (पुनानः) पवित्रान्तःकरणान् कुर्वन् (विश्वतः) सर्वतः (रयिम्) आध्यात्मिकं भौतिकं च ऐश्वर्यम्, अपि च (वीरवतीम्) वीरत्वोपेताम् (इषम्) प्रगतिम्। [इषु गतौ, दिवादिः, ततः क्विप्।] (आ भर) आहर, प्रयच्छ ॥२॥
Essence
जगदीश्वरादाचार्याच्च सत्प्रेरणां प्राप्य पवित्रहृदया भूत्वा जना महतीमुन्नतिं कर्त्तुं प्रभवन्ति ॥३॥ अस्मिन् खण्डे जगदीश्वराचार्यनृपतीनां गुणकर्मादिवर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिर्वेद्या ॥
Subject
अथ पुनरपि तावेव प्रार्थ्येते।
Footnote
२. ऋ० ९।६१।६।