Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 788

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ये꣡ ते꣢ प꣣वि꣡त्र꣢मू꣣र्म꣡यो꣢ऽभि꣣क्ष꣡र꣢न्ति꣣ धा꣡र꣢या । ते꣡भि꣢र्नः सोम मृडय ॥७८८॥

ये꣢ । ते꣣ । पवि꣡त्र꣢म् । ऊ꣣र्म꣡यः꣢ । अ꣣भिक्ष꣡र꣢न्ति । अ꣣भि । क्ष꣡र꣢꣯न्ति । धा꣡र꣢꣯या । ते꣡भिः꣢꣯ । नः꣣ । सोम । मृडय ॥७८८॥

Mantra without Swara
ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया । तेभिर्नः सोम मृडय ॥

ये । ते । पवित्रम् । ऊर्मयः । अभिक्षरन्ति । अभि । क्षरन्ति । धारया । तेभिः । नः । सोम । मृडय ॥७८८॥

Samveda - Mantra Number : 788
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) ज्ञानप्रेरक परमात्मन् आचार्य वा ! (ये ते) ये तव (ऊर्मयः) आनन्दरसस्य ज्ञानरसस्य वा तरङ्गाः (धारया) धारारूपेण (पवित्रम्) पावनं हृदयम् (अभि) अभिलक्ष्य (क्षरन्ति) प्रवहन्ति(तेभिः) तैः (नः) अस्मान् (मृडय) सुखय ॥२॥
Essence
परमेश्वरः स्तोतॄनानन्दरसतरङ्गैराचार्यश्च शिष्यान् ज्ञानरसतरङ्गैस्तरङ्गयतः ॥२॥
Subject
अथ पुनरपि तावेव सम्बोध्येते।
Footnote
१. ऋ० ९।६१।५।