Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 785

1875 Mantra
Devata- पवमानः सोमः Rishi- भृगुर्वारुणिर्जमदग्निर्भार्गवो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣢द꣣द्भिः꣡ प꣢रिषि꣣च्य꣡से꣢ मर्मृ꣣ज्य꣡मा꣢न आ꣣यु꣡भिः꣢ । द्रो꣡णे꣢ स꣣ध꣡स्थ꣢मश्नुषे ॥७८५॥

यत् । अ꣡द्भिः꣢ । प꣣रिषिच्य꣡से꣢ । प꣣रि । सिच्य꣡से꣢ । म꣣र्मृज्य꣡मा꣢नः । आ꣣यु꣡भिः꣢ । द्रो꣡णे꣢꣯ । स꣣ध꣡स्थ꣢म् । स꣣ध꣢ । स्थ꣣म् । अश्नुषे ॥७८५॥

Mantra without Swara
यदद्भिः परिषिच्यसे मर्मृज्यमान आयुभिः । द्रोणे सधस्थमश्नुषे ॥

यत् । अद्भिः । परिषिच्यसे । परि । सिच्यसे । मर्मृज्यमानः । आयुभिः । द्रोणे । सधस्थम् । सध । स्थम् । अश्नुषे ॥७८५॥

Samveda - Mantra Number : 785
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—जगदीश्वरपक्षे। हे जगदीश्वर ! (यत्) यदा (आयुभिः) उपासकैः मनुष्यैः। [आयुरिति मनुष्यनाम। निघं० २।३।] (मर्मृज्यमानः) भूयोभूयोऽतिशयेन सात्त्विकैर्भावैरलङ्क्रियमाणः त्वम् (अद्भिः) भक्तिरसैः (परिषिच्यसे) आर्द्रीक्रियसे, तदा (द्रोणे) हृदयरूपे द्रोणकलशे (सधस्थम्) स्थानम् (अश्नुषे) प्राप्नोषि। [अशूङ् व्याप्तौ संघाते च, स्वादिः] ॥ द्वितीयः—नरेश्वरपक्षे। हे नरेश्वर ! (यत्) यदा (आयुभिः) राष्ट्रवासिभिः प्रजाजनैः (मर्मृज्यमानः) माल्यादिभिरलङ्क्रियमाणः त्वम् (अद्भिः) अभिषेकजलैः (परिषिच्यसे) आर्द्रीकियसे, तदा (द्रोणे) द्रुममये सिंहासने (सधस्थम्) स्थानम् (अश्नुषे) प्राप्नोषि ॥२॥ अत्र श्लेषालङ्कारः। सोमौषधिपक्षेऽप्यर्थो योजनीयः ॥२॥
Essence
यथा याज्ञिकैः सोमौषधिरसोऽद्भिः सह द्रोणकलशे परिषिच्यते, यथा वा प्रजाजनैः कश्चित् सुयोग्यो जनो राजपदेऽभिषिच्यते तथैव स्तोतृभिः परमेश्वरो भक्तिरसैर्हृदयेऽभिषेचनीयः ॥२॥
Subject
अथ पुनरपि जगदीश्वरो नरेश्वरश्च वर्ण्यते।
Footnote
१. ऋ० ९।६५।६ ‘मृ॒ज्यमा॑नो॒ गभ॑स्त्योः। द्रुणा॑’ इति पाठः।