Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 783

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣢श्वो꣣ न꣡ च꣢क्रदो꣣ वृ꣢षा꣣ सं꣡ गा इ꣢꣯न्दो꣣ स꣡मर्व꣢꣯तः । वि꣡ नो꣢ रा꣣ये꣡ दुरो꣢꣯ वृधि ॥७८३॥

अ꣡श्वः꣢꣯ । न । च꣣क्रदः । वृ꣡षा꣢꣯ । सम् । गाः । इ꣣न्दो । स꣢म् । अ꣡र्व꣢꣯तः । वि । नः꣣ । राये꣢ । दु꣡रः꣢꣯ । वृ꣣धि ॥७८३॥

Mantra without Swara
अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः । वि नो राये दुरो वृधि ॥

अश्वः । न । चक्रदः । वृषा । सम् । गाः । इन्दो । सम् । अर्वतः । वि । नः । राये । दुरः । वृधि ॥७८३॥

Samveda - Mantra Number : 783
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम पावक जगदीश्वर, आचार्य नृपते च ! (वृषा) धर्मार्थकाममोक्षाणां वर्षकः त्वम् (अश्वः२ न) पर्जन्यः इव (चक्रदः) क्रन्दसि। [क्रद आह्वाने रोदने च, अनिदितोऽपि पठ्यते। क्रदति—क्रदयति। लुङि ‘अचक्रदः’। अडभावश्छान्दसः। लडर्थे लुङ्।] हे (इन्दो) तेजस्विन्। त्वम् (गाः) धेनूः, पृथिवीः, वेदवाचश्च (सम्) संगमय, (अर्वतः) अश्वान् बलानि प्राणांश्च (सम्) संगमय। किञ्च, (नः) अस्माकम् (राये) ऐश्वर्यप्राप्तये (दुरः) द्वाराणि (वि वृधि) अपावृणु, उद्घाटय, ऐश्वर्यप्राप्तौ ये विघ्नाः सन्ति तान् दूरीकुरु इत्यर्थः। [विपूर्वाद् वृञ् वरणे धातोः ‘बहुलं छन्दसि’ अ० २।४।७३ इति श्नोर्लुक् ‘श्रुशृणुपृकृवृभ्यश्छन्दसि’ अ० ६।४।१०२ इति हेर्धिः] ॥३॥ अत्रोपमालङ्कारोऽर्थश्लेषश्च ॥३॥
Essence
जगदीश्वरः सर्वेषां हृद्देशे तिष्ठन् क्रन्दति सत्प्रेरणां ददाति, आचार्यो विद्यागृहे तिष्ठन् शिष्यानुपदिशति, नृपतिश्च राष्ट्रे तिष्ठन् राजनियमानुद्घोषयति। ते सर्वेऽपि यथायोग्यं दीर्घायुष्यप्राणप्रजापशुकीर्तिद्रविणब्रह्मवर्चसादिकं प्रयच्छन्ति, मार्गाद् विघ्नबाधाश्च निराकुर्वन्ति ॥३॥
Subject
अथ पुनरपि परमात्मानमाचार्यं नृपतिं च सम्बोधयति।
Footnote
१. ऋ० ९।६४।३। २. ‘प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः॑ (ऋ० ५।८३।६)’ इति प्रामाण्यादश्वः पर्जन्यः।