Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 782

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वृ꣡ष्ण꣢स्ते꣣ वृ꣢ष्ण्य꣣ꣳ श꣢वो꣣ वृ꣢षा꣣ व꣢नं꣣ वृ꣡षा꣢ सु꣣तः꣢ । स꣡ त्वं वृ꣢꣯ष꣣न्वृ꣡षेद꣢꣯सि ॥७८२॥

वृ꣡ष꣢꣯णः । ते꣣ । वृ꣡ष्ण्य꣢꣯म् । श꣡वः꣢꣯ । वृ꣡षा꣢꣯ । व꣡न꣢꣯म् । वृ꣡षा꣢꣯ । सु꣣तः꣢ । सः । त्वम् । वृ꣣षन् । वृ꣡षा꣢꣯ । इत् । अ꣣सि ॥७८२॥

Mantra without Swara
वृष्णस्ते वृष्ण्यꣳ शवो वृषा वनं वृषा सुतः । स त्वं वृषन्वृषेदसि ॥

वृषणः । ते । वृष्ण्यम् । शवः । वृषा । वनम् । वृषा । सुतः । सः । त्वम् । वृषन् । वृषा । इत् । असि ॥७८२॥

Samveda - Mantra Number : 782
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वृषन्) सुखसम्पद्विद्यादिवर्षक परमात्मन् आचार्य नृपते च ! (वृष्णः ते) वर्षकस्य तव (शवः) बलम् (वृष्ण्यम्) सुखशान्तिधनादीनां वर्षणशीलं भवति, (वनम्) तव तेजः अपि (वृषा) सुखादीनां वर्षकं भवति। [वनम् इति रश्मिनाम। निघं० १।५। वृषा इत्यत्र लिङ्गव्यत्ययः।] (सुतः) त्वया उत्पादितः वृष्टिरसः, विद्यारसः रक्षारसश्चापि (वृषा) सुखादिवर्षको भवति। (सः त्वम्) तादृशः त्वम् (वृषा इत्) मेघः एव (असि) वर्तसे ॥२॥ अत्र सोमवाच्येषु परमेश्वरादिषु मेघारोपाद् रूपकालङ्कारः। ‘वृष्ण वृष्ण’ इति छेकानुप्रासः। वृषा वृषा इति लाटानुप्रासः। वृष्, वृष्, वृषा, वृषा, वृष, वृषे इति वृत्त्यनुप्रासः ॥२॥
Essence
जगदीश्वरो नृपतिराचार्यश्च त्रयोऽप्येते जनानामैहिकपारलौकिकोत्कर्ष- प्रदानाय सहायका जायन्ते ॥२॥
Subject
अथ पुनरपि परमात्माऽऽचार्यनृपतयः स्तूयन्ते।
Footnote
२. ऋ० ९।६४।२, ‘सुतः’ इत्यत्र ‘म॑दः’ इति भेदः। ‘स त्वं’ इत्यत्र च ‘स॒त्यं’ इति पाठः।