Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 781

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वृ꣡षा꣢ सोम द्यु꣣मा꣡ꣳ अ꣢सि꣣ वृ꣡षा꣢ देव꣣ वृ꣡ष꣢व्रतः । वृ꣢षा꣣ ध꣡र्मा꣣णि दध्रिषे ॥७८१॥

वृ꣡षा꣢꣯ । सो꣣म । द्युमा꣢न् । अ꣣सि । वृ꣡षा꣢꣯ । दे꣣व । वृ꣣ष꣢꣯व्रतः । वृ꣡ष꣢꣯ । व्र꣣तः । वृ꣡षा꣢꣯ । ध꣡र्मा꣢꣯णि । द꣣ध्रिषे ॥७८१॥

Mantra without Swara
वृषा सोम द्युमाꣳ असि वृषा देव वृषव्रतः । वृषा धर्माणि दध्रिषे ॥

वृषा । सोम । द्युमान् । असि । वृषा । देव । वृषव्रतः । वृष । व्रतः । वृषा । धर्माणि । दध्रिषे ॥७८१॥

Samveda - Mantra Number : 781
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) सत्कर्मसु प्रेरक जगदीश्वर आचार्य नृपते वा ! (वृषा) सुखवर्षको विद्यावर्षकः समृद्धिवर्षकश्च त्वम् (द्युमान्) द्युतिमान् (असि) वर्तसे। हे (देव) सूर्यादीनां प्रकाशक जगदीश, वेदविद्याप्रकाशक आचार्य राजनियमप्रकाशक नृपते च ! (वृषव्रतः) वृषं धर्मस्य विद्यायाः समृद्धेश्च वर्षणमेव व्रतं यस्य तादृशः त्वम् (वृषा) सत्यं पर्जन्यः असि। (वृषा) आत्मबलेन दैहिकबलेन वा युक्तः त्वम् (धर्माणि) चरित्रनियमान्, विद्यानियमान्, राजनियमांश्च (दध्रिषे) स्थापयसि ॥१॥ अत्रार्थश्लेषालङ्कारः। ‘वृषा असि पर्जन्योऽसि’ इति सोमे वृषत्वस्य (पर्जन्यत्वस्य) आरोपाच्च रूपकम्। तस्मिन्नारोपे ‘वृषव्रतः’ इति पदार्थस्य हेतुत्वाच्च काव्यलिङ्गम्। ‘वृषा’ इत्यस्यावृत्तौ च यमकम् ॥१॥
Essence
यत्र महान् परमेश्वरः सुखादिं विद्वानाचार्यो विद्यां धनिको राजा च धनं वर्षति तद् राष्ट्रं महिम्ना बहु शोभते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५०४ क्रमाङ्के परमेश्वरपक्षे व्याख्याता। अत्र जगदीश्वर आचार्यो नृपतिश्च त्रयोऽपि सम्बोध्यन्ते।
Footnote
१. ऋ० ९।६४।१ ‘दध्रिषे’ इत्यत्र ‘दधिषे’ इति पाठः। साम० ५०४।