Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 780

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
या꣡ ते꣢ भी꣣मा꣡न्यायु꣢꣯धा ति꣣ग्मा꣢नि꣣ स꣢न्ति꣣ धू꣡र्व꣢णे । र꣡क्षा꣢ समस्य नो नि꣣दः꣢ ॥७८०॥

या । ते꣣ । भीमा꣡नि꣢ । आ꣡यु꣢꣯धा । ति꣣ग्मा꣡नि꣢ । स꣡न्ति꣢꣯ । धू꣡र्व꣢꣯णे । र꣡क्ष꣢꣯ । स꣣मस्य । नः । निदः꣢ ॥७८०॥

Mantra without Swara
या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे । रक्षा समस्य नो निदः ॥

या । ते । भीमानि । आयुधा । तिग्मानि । सन्ति । धूर्वणे । रक्ष । समस्य । नः । निदः ॥७८०॥

Samveda - Mantra Number : 780
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम ! हे कर्मशूर जगदीश्वर आचार्य नृपते वा ! (धूर्वणे) हिंसकाय। [धुर्वी हिंसार्थः। धूर्वति हिनस्ति यः स धूर्वा तस्मै।] (या) यानि (ते) तव (भीमानि) भयङ्कराणि, (तिग्मानि) तीक्ष्णानि (आयुधा) आयुधानि [सर्वत्र ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इति शेर्लोपः।] (सन्ति) वर्त्तन्ते, तैः (समस्य) सर्वस्य शत्रोः (निदः) निन्दायाः (नः) अस्मान् (रक्ष) त्रायस्व ॥३॥ अत्रार्थश्लेषालङ्कारः ॥३॥
Essence
जगदीश्वरो दण्डशक्तिरूपैराचार्यो ब्रह्मतेजोरूपैर्नृपतिश्च भौतिकैः शस्त्रास्त्रैर्दुष्टानां दुष्टतां निराकृत्य तत्कृतान्निन्दनाद् मनुष्यान् शिष्यान् प्रजाजनांश्च रक्षन्तु ॥३॥
Subject
अथ पुनरपि तानेव प्रार्थयते।
Footnote
१. ऋ० ९।६१।३–०।