Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 78

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
प्र꣢ स꣣म्रा꣢ज꣣म꣡सु꣢रस्य प्रश꣣स्तं꣢ पु꣣ꣳसः꣡ कृ꣢ष्टी꣣ना꣡म꣢नु꣣मा꣡द्य꣢स्य । इ꣡न्द्र꣢स्येव꣣ प्र꣢ त꣣व꣡स꣢स्कृ꣣ता꣡नि꣢ व꣣न्द꣡द्वा꣢रा꣣ व꣡न्द꣢माना विवष्टु ॥७८॥

प्र꣢ । स꣣म्रा꣡ज꣢म् । स꣣म् । रा꣡ज꣢꣯म् । अ꣡सु꣢꣯रस्य । अ । सु꣣रस्य । प्रशस्त꣢म् । प्र꣣ । शस्त꣢म् । पुँ꣣सः꣢ । कृ꣣ष्टीना꣢म् । अ꣣नुमा꣡द्य꣢स्य । अ꣣नु । मा꣡द्य꣢꣯स्य । इ꣡न्द्र꣢꣯स्य । इ꣣व । प्र꣢ । त꣣व꣡सः꣢ । कृ꣣ता꣡नि꣢ । व꣣न्द꣡द्वा꣢रा । व꣡न्द꣢꣯माना । वि꣣वष्टु ॥७८॥

Mantra without Swara
प्र सम्राजमसुरस्य प्रशस्तं पुꣳसः कृष्टीनामनुमाद्यस्य । इन्द्रस्येव प्र तवसस्कृतानि वन्दद्वारा वन्दमाना विवष्टु ॥

प्र । सम्राजम् । सम् । राजम् । असुरस्य । अ । सुरस्य । प्रशस्तम् । प्र । शस्तम् । पुँसः । कृष्टीनाम् । अनुमाद्यस्य । अनु । माद्यस्य । इन्द्रस्य । इव । प्र । तवसः । कृतानि । वन्दद्वारा । वन्दमाना । विवष्टु ॥७८॥

Samveda - Mantra Number : 78
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः ! यूयम् (असुरस्य२) दोषाणां प्रक्षेपकस्य प्राणप्रदस्य वा। असु क्षेपणे धातोः असेरुरन्।’ उ० —१।४२ इत्युरन्। यद्वा असून् प्राणान् राति ददातीत्यसुरः। असु पूर्वाद् रा दाने धातोः आतोऽनुपसर्गे कः।’ अ० ३।२।३ इति कः प्रत्ययः। (पुंसः) पौरुषवतः, (कृष्टीनाम्) मनुष्याणाम्। कृष्टय इति मनुष्यनाम, कर्मवन्तो भवन्ति विकृष्टदेहा वा। निरु० १०।२२। (अनुमाद्यस्य) अनुहर्षितुं योग्यस्य, प्रसादनीयस्य। अनू पूर्वाद् मदी हर्षे धातोर्ण्यत्। अग्नेः ज्योतिष्प्रदस्य नेतुः परमात्मनः (प्रशस्तम्) कीर्तियुक्तम् (सम्राजम्) साम्राज्यम्। अत्र सं पूर्वाद् राजृ दीप्तौ धातोर्भावे क्विप्। (प्र) प्रकर्षेण स्तुत। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। किञ्च, (वन्दमाना) स्तुवन्ती नारी अपि (इन्द्रस्य इव) सूर्यस्य इव। अथ यः स इन्द्रौऽसौ स आदित्यः। श० ८।५।३।२ इत्यादिप्रामाण्याद् इन्द्रः सूर्यः। (तवसः) महतः तस्य परमात्मनः। तवसः इति महन्नामसु पठितम्। निघं० ३।३। (कृतानि) यशोमयानि कर्माणि (वन्दद्वारा३) वन्दनाद्वारेण (प्र विवष्टु) प्रकर्षेण गातुं कामयताम्। वश कान्तौ अदादिः, कान्तिरिच्छा। बहुलं छन्दसि।’ अ० २।४।७६ इति शपः श्लौ द्वित्वे रूपम् ॥६॥४ अत्रोपमालङ्कारः ॥६॥
Essence
सर्वैर्नरैः सर्वाभिर्नारीभिश्च दोषाणामपहर्तुः प्राणप्रदस्य बलवतः परमेश्वरस्य वन्दना सदा कार्या तद्गुणाश्च ग्राह्याः ॥६॥
Subject
अथ परमात्मनः कर्माणि वन्दनीयानीत्याह।
Footnote
१. ऋ० ७।६।१, देवता वैश्वानरः। प्र सम्राजो असुरस्य प्रशस्तिं, वन्दे दारुं वन्दमानो विवक्मि—इति प्रथमतुरीयपादयोः पाठः। २. अ-सुरस्य इति पदपाठश्चिन्त्यः, वेदेषु सुरशब्दस्य क्वचिदपि प्रयोगाभावात्। ३. विवरणकारस्य तु वन्दद् वारा इति पदपाठोऽभिमतः। प्रवन्दत् प्रकर्षेण स्तौति, वारा, द्वितीयैकवचनस्य स्थाने आकारः, वारं वरणीयम् इत्यादि तद्व्याख्यानम्। भरतस्वामी तु वन्दद्वारा वन्दद्वाराणि वन्दमाना वन्दमानानि इति व्याचष्टे। सायणोऽपि वन्दनं वन्दः स्तुतिः, तद्द्वाराणि स्तुतिप्रमुखानि वन्दमाना सर्वैः स्तूयमानानि कृतानि कर्माणि’ इत्याह। ४. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं राजपक्षे व्याख्यातः।