Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 779

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣡स्य꣢ ते स꣣ख्ये꣢ व꣣य꣡ꣳ सा꣢स꣣ह्या꣡म꣢ पृतन्य꣣तः꣢ । त꣡वे꣢न्दो द्यु꣣म्न꣡ उ꣢त्त꣣मे꣢ ॥७७९॥

य꣡स्य꣢꣯ । ते꣣ । सख्ये꣢ । स꣣ । ख्ये꣢ । व꣣य꣢म् । सा꣣सह्या꣡म꣢ । पृ꣣तन्यतः꣢ । त꣡व꣢꣯ । इ꣣न्दो । द्युम्ने꣢ । उ꣣त्तमे꣢ ॥७७९॥

Mantra without Swara
यस्य ते सख्ये वयꣳ सासह्याम पृतन्यतः । तवेन्दो द्युम्न उत्तमे ॥

यस्य । ते । सख्ये । स । ख्ये । वयम् । सासह्याम । पृतन्यतः । तव । इन्दो । द्युम्ने । उत्तमे ॥७७९॥

Samveda - Mantra Number : 779
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) तेजस्विन् जगदीश्वर आचार्य नृपते वा ! (यस्य ते) यस्य तव (सख्ये) सखित्वे (वयम्) वयं स्मः, ते वयम् (पृतन्यतः) पृतनया अभिगच्छतः आन्तरान् बाह्यांश्च शत्रून् (सासह्याम) अतिशयेन पुनः पुनः पराभवेम। अपि च (तव) त्वदीये, त्वया प्रदत्ते (उत्तमे) उत्कृष्टतमे (द्युम्ने) यशसि, स्याम इति शेषः ॥२॥
Essence
सर्वैः परमेश्वरमुपास्य, गुरुं शिष्यत्वेनोपगम्य, नृपतेश्च साहाय्यं प्राप्य सर्वान् कामक्रोधादीनान्तरान् बाह्यांश्च रिपून् निर्मूल्य यशस्विभिर्भाव्यम् ॥२॥
Subject
अथ पुनस्तानेव प्रार्थयते।
Footnote
२. ऋ० ९।६१।२९, ‘अस्य॑ ते स॒ख्ये व॒यं तवे॑न्दो द्यु॒म्न उ॑त्त॒मे। सा॒स॒ह्याम॑ पृतन्य॒तः ॥’ इति पाठः।