Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 778

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢स्वेन्दो꣣ वृ꣡षा꣢ सु꣣तः꣢ कृ꣣धी꣡ नो꣢ य꣣श꣢सो꣣ ज꣡ने꣢ । वि꣢श्वा꣣ अ꣢प꣣ द्वि꣡षो꣢ जहि ॥७७८॥

प꣡व꣢꣯स्व । इ꣣न्दो । वृ꣡षा꣢꣯ । सु꣣तः꣢ । कृ꣣धि꣢ । नः꣣ । यश꣡सः꣢ । ज꣡ने꣢꣯ । वि꣡श्वाः꣢꣯ । अ꣡प꣢꣯ । ꣡द्विषः꣢꣯ । ज꣣हि ॥७७८॥

Mantra without Swara
पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने । विश्वा अप द्विषो जहि ॥

पवस्व । इन्दो । वृषा । सुतः । कृधि । नः । यशसः । जने । विश्वाः । अप । द्विषः । जहि ॥७७८॥

Samveda - Mantra Number : 778
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) तेजस्विन् परमात्मन् आचार्य नृपते च (वृषा) विद्यावर्षकः सुखवर्षकश्च, (सुतः) अस्माभिः प्रार्थितः प्रेरितश्च त्वम् (पवस्व) अस्मान् पुनीहि। (जने) जनसमाजे (नः) अस्मान् (यशसः) यशस्विनः (कृधि) कुरु। (विश्वाः द्विषः) सर्वाः द्वेषवृत्तीः, सर्वान् द्वेष्टॄन् वा (अप जहि) विनाशय ॥१॥ अत्रार्थश्लेषालङ्कारः ॥१॥
Essence
जगदीश्वरादाचार्यान्नृपतेश्च विद्यां सुखं पवित्रतां कीर्तिं द्वेषपापादिविनाशं च प्राप्य सर्वे जनाः सफलजीवना भवेयुः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४७९ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र परमात्माऽऽचार्यो नृपतिश्च प्रार्थ्यते।
Footnote
१. ऋ० ९।६१।२८, साम० ४७९।