Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 777

1875 Mantra
Devata- पवमानः सोमः Rishi- जमदग्निर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
तु꣢भ्ये꣣मा꣡ भुव꣢꣯ना कवे महि꣣म्ने꣡ सो꣢म तस्थिरे । तु꣡भ्यं꣢ धावन्ति धे꣣न꣡वः꣢ ॥७७७॥

तु꣡भ्य꣢꣯ । इ꣡मा꣢ । भु꣡व꣢꣯ना । क꣣वे । महिम्ने꣢ । सो꣣म । तस्थिरे । तु꣡भ्य꣢꣯म् । धा꣣वन्ति । धेन꣡वः꣢ ॥७७७॥

Mantra without Swara
तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । तुभ्यं धावन्ति धेनवः ॥

तुभ्य । इमा । भुवना । कवे । महिम्ने । सोम । तस्थिरे । तुभ्यम् । धावन्ति । धेनवः ॥७७७॥

Samveda - Mantra Number : 777
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (कवे) मेधाविन् क्रान्तदर्शिन् (सोम) जगदीश्वर ! (इमा भुवना) इमानि भुवनानि लोकलोकान्तराणि (तुभ्य) तुभ्यम्, त्वत्पूजार्थम् एव। [मकारलोपश्छान्दसः।] (महिम्ने तस्थिरे) महिमवन्ति जातानि। (तुभ्यम्) त्वत्पूजार्थमेव (धेनवः२) गावः मेघमालाः सूर्यदीधितयो वा (धावन्ति) वेगेन गच्छन्ति ॥३॥
Essence
विशाले ब्रह्माण्डेऽस्मिन् सूर्यश्चन्द्रस्तारका भूमिर्ऋतवो नद्यः समुद्रा मेघघटा धेनवोऽश्वा मनुष्या मङ्गलबुधबृहस्पत्यादयो ग्रहाः सर्वाणि परमेश्वरस्यैव महिमानं गायन्ति ॥३॥
Subject
अथ सोमस्य जगदीश्वरस्य महिमानं वर्णयति।
Footnote
२. ऋ० ९।६२।२७ ‘तुभ्य॑मर्षन्ति॒ सिन्ध॑वः’ इति तृतीयः पादः। ३. ‘धेनवः गावः। अथवा धेनवः आदित्यरश्मयः’ इति वि०।