Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 776

1875 Mantra
Devata- पवमानः सोमः Rishi- जमदग्निर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्व꣡ꣳ स꣢मु꣣द्रि꣡या꣢ अ꣣पो꣢ऽग्रि꣣यो꣡ वाच꣢꣯ ई꣣र꣡य꣢न् । प꣡व꣢स्व विश्वचर्षणे ॥७७६॥

त्वम् । स꣣मुद्रि꣡याः꣢ । स꣣म् । उद्रि꣡याः꣢ । अ꣣पः꣢ । अ꣣ग्रि꣢यः । वा꣡चः꣢꣯ । ई꣣र꣡य꣢न् । प꣡व꣢꣯स्व । वि꣣श्वचर्षणे । विश्व । चर्षणे ॥७७६॥

Mantra without Swara
त्वꣳ समुद्रिया अपोऽग्रियो वाच ईरयन् । पवस्व विश्वचर्षणे ॥

त्वम् । समुद्रियाः । सम् । उद्रियाः । अपः । अग्रियः । वाचः । ईरयन् । पवस्व । विश्वचर्षणे । विश्व । चर्षणे ॥७७६॥

Samveda - Mantra Number : 776
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (विश्वचर्षणे) विश्वद्रष्टः, विश्वेषां मनुष्याणां स्वामिन् वा जगदीश्वर ! (वाचः) उपासकानां वाण्याः (अग्रियः)अग्रेभवः (त्वम्) पवित्रकर्ता (समुद्रियाः) समुद्रे आनन्दसागरे भवाः। [समुद्राभ्राद् घः अ० ४।४।११ इति भवार्थे घः प्रत्ययः।] (अपः) रससन्ततीः (ईरयन्) अस्मान् प्रति गमयन्। [ईर क्षेपे चुरादिः, यद्वा ईर गतौ कम्पने च अदादिः, ण्यन्तः।] अस्मान् (पवस्व) पुनीहि ॥२॥
Essence
परमेश्वरस्य स्तुतिर्निष्फला न जायते, प्रत्युत स स्वोपासकान् आनन्दरसेन सरसान् पवित्रांश्च करोति ॥२॥
Subject
अथ पुनर्जगदीश्वरं प्रार्थयते।
Footnote
१. ऋ० ९।६२।२६ ‘पव॑स्व विश्वभेजय’ इति तृतीयः पादः।