Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 775

1875 Mantra
Devata- पवमानः सोमः Rishi- जमदग्निर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢स्व वा꣣चो꣡ अ꣢ग्रि꣣यः꣡ सोम꣢꣯ चि꣣त्रा꣡भि꣢रू꣣ति꣡भिः꣢ । अ꣣भि꣡ विश्वा꣢꣯नि꣣ का꣡व्या꣢ ॥७७५॥

प꣡व꣢꣯स्व । वा꣣चः꣢ । अ꣣ग्रियः꣢ । सो꣡म꣢꣯ । चि꣣त्रा꣡भिः꣢ । ऊति꣡भिः꣢ । अ꣣भि꣢ । वि꣡श्वा꣢꣯नि । का꣡व्या꣢꣯ ॥७७५॥

Mantra without Swara
पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः । अभि विश्वानि काव्या ॥

पवस्व । वाचः । अग्रियः । सोम । चित्राभिः । ऊतिभिः । अभि । विश्वानि । काव्या ॥७७५॥

Samveda - Mantra Number : 775
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) सर्वोत्पादक, सर्वप्रेरक, सर्वैश्वर्यवन्, रसागार, चन्द्रवदाह्लादक जगदीश्वर ! अस्माकम् (वाचः) जिह्वायाः, (अग्रियः) अग्रेभवः त्वम्। [अग्रशब्दाद् ‘घच्छौ च’। अ० ४।४।११७ इति भवार्थे घः प्रत्ययः।] (चित्राभिः) अद्भुताभिः (ऊतिभिः)रक्षाभिः सह (पवस्व) अस्मान् पुनीहि। त्वम् (विश्वानि) सर्वाणि (काव्या) वेदकाव्यानि (अभि)अभिव्याप्नोषि। तथा चोक्तम्—‘यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत् तद्वि॒दुस्त इ॒मे समा॑सते (ऋ० १।१६४।३९)’ इति ॥१॥
Essence
यं जगदीश्वरो रक्षति तस्य बालमपि वक्रं कर्त्तुं कोऽपि न शक्नोति ॥१॥
Subject
तत्रादौ सोमं जगदीश्वरं प्रार्थयते।
Footnote
१. ऋ० ९।६२।२५।